________________
१४६
श्रीअध्यात्मकल्पद्रु
स्यादिति चेत् ? -न, पूर्वकाव्ये नियमान्तःपातित्वेन तपोवैयर्थ्ये प्रतिपादितेऽपि साक्षात् तस्याप्रतिपादनादिति ।।९.६ ।।
रत्न. – दान- श्रुत-ध्यान- तपो - ऽर्चनादि इति, व्याख्या - मनसो निग्रहो - नियन्त्रणं तमन्तरेण जीवस्य दानं च श्रुतं च तपश्च अर्चनं च दान, तपो ऽर्चनानि तानि आदौ यस्य तत्, दानं पञ्चधा श्रुतं शास्त्राध्ययनं, तपो द्वादशधा, अर्चनं-देवगुरु-ज्ञानादिपूजनं, आदिशब्दाच्चैत्यबिम्बप्रतिष्ठादि गृह्यते, वृथा - मुधा, न मोक्षसाधकमित्यर्थः, हि यस्मात् कारणात् मनसो वशत्वं परः परमो योग:अष्टाङ्गयोगः, मनसः किंलक्षणस्य ? कषायाः-क्रोध-मान-माया-लोभास्तैर्या चिन्ता-दुर्विकल्पास्ताभिराकुलता - व्यग्रत्वं तयोज्झितस्य-त्यक्तस्य ।।९.१३।।
,
-
[२२५] जपो न मुक्त्यै न तपो द्विभेद, न संयमो नापि दमो न मौनम् ।
न साधनाद्यं पवनादिकस्य,
किं त्वेकमन्तःकरणं सुदान्तम् ।।९.७।। धनवि: . - अथ केवलस्य मनोनिग्रहस्य साक्षान्मुक्त्यङ्गतां दर्शयन्नुपदिशति'जप' इति जपः-प्रणवजापो मुक्त्यै-मोक्षाय न स्यादिति, तथा द्विभेदंबाह्यत्वाभ्यन्तरत्वभेदेन द्विप्रकारं तपः अनशन - प्रायश्चित्तादि मुक्त्यै न स्यात्, नापि संयमः-पृथ्वीकायसंयमादिः पञ्चाश्रवविरमणादिर्वा सप्तदशभेदः, नापि दमःपञ्चेन्द्रियदमनं, नापि मौनं - वाक्संयमो, नापि पवनादिकस्य साधनं, पवनादिकस्येत्यत्रादिपदेन ध्याना-ऽऽसनादिपरिग्रहः, साधनाद्यम् इत्यत्राद्यपदेनावस्थानबन्धनादिपरिग्रहः, तेन ध्यानावस्थानं आसनबन्धनं च मुक्त्यै न भवेदित्यादि गम्यं, अत्र पवनसाधनादिकं योगशास्त्रादिभ्योऽवसेयम्; एकम्-अद्वितीयम्, अन्तःकरणं-मनः सुदान्तं - शोभनप्रकारेण नियन्त्रितं मुक्त्यै भवेदिति, अत्र संयमसप्तदशभेदसूचिका गाथा चेयं [दशवैकालिकनिर्युक्तौ]
१. ओङ्कारादिजापो. मु० ।