SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ चित्तदमनद्वारम् १४७ [२२६] "पुढवि-दग-अगणि- मारुय-वणस्सइ - बि-ति-चउ-पणिदिअज्जीवे । पेहुप्पेह - पमज्जण परिट्ठवण - मणो - वई - काए ।। [ ४६ ] ।।" अत्रोपेक्षासंयमस्वरूपं 'सीदतां संयतानां चिन्ता असंयतानां न' इति प्रतिक्रमणसूत्रवृत्तौ, उपेक्षा- असंयमयोगेष्वव्यापारणं संयमयोगस्य व्यापारणमिति समवायवृत्ताविति, अत्र विशेषार्थिनाऽऽवश्यकवृत्तिर्विलोक्येति, पुनः संयमस्य प्रकारान्तरेण सप्तदशभेदप्रतिपादिकाऽऽर्या चेयं [२२७] "पञ्चाश्रवाद् विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः" [ ] इति ।।९.७ ।। रत्न. - जपो न मुक्त्यै इति., व्याख्या - जपो - जापः परमेष्ठिमन्त्रादेर्मुक्त्यैमुक्तये न स्यात्, मुक्त्यै इति सर्वत्र योज्यं, तथा तपो न, किंलक्षणं ? - द्वौ भेदौ बाह्या-ऽभ्यन्तरलक्षणौ यस्य, तथा न संयमः - चारित्रं, न दमः - इन्द्रियदमनं, न मौन तथा न पवनादिकस्य साधनाद्यं, आदिशब्दाच्चतुरशीतियोगाऽऽसनसाधनादिग्रहः, किंत्विति विशेषे, मनः सुष्ठु दान्तम्-उपशान्तं सत्-मुक्त्यैअष्टकर्ममुक्तयै स्यात् ।।९.७।। [२२८] लब्ध्वाऽपि धर्मं सकलं जिनोदितं, सुदुर्लभं पोतनिभं विहाय च । मनःपिशाचग्रहिलीकृतः पतन्, भवाम्बुधौ नाऽऽयतिदृग् जडो जनः ।।९.८ ।। धनवि . - अत्र दुष्टत्वेन मनसः पिशाचतां दर्शयन् तन्निग्रहमुपदिशति ― 'लब्ध्वापि' इति, सुदुर्लभं सुष्ठु अतिशयेन दुर्लभं दुष्प्रापं दशभिर्दृष्टान्तैरिति शेषः, पोतनिभं यानपात्रसदृशं जिनोदितम् अर्हत्प्रकाशितं धर्मं सागाराऽनगारभेदाद् द्विविधं सकलं परिपूर्णं मूलगुणोत्तरगुणसहितं लब्ध्वाऽपि प्राप्यापि मन एव पिशाचः-उन्मादजनकत्वेन व्यन्तरविशेषः तेन ग्रहिलीकृतो - विकलीकृतः सन्, च · 1
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy