________________
चित्तदद्वारम्
१४५
पञ्चभिश्च किं कार्यं ! किं प्रयोजनं, ते तु मनोवशीकरणायैव सन्ति, तत् तु स्वत वशेऽस्ति, ततस्तैः किमिति भावः । च पुनर्यस्य मनो दुर्विकल्पैर्हतंपीडितं तस्यात्मनोऽपि यमैर्नियमैश्च पूर्वोक्तैः किं कार्यं ? न किञ्चिदिति, नियमा यमाश्च मनोवशीकरणप्रयोजनाः, तत् तु दुर्विकल्पग्रस्तं, ततोऽजागलस्तनमुखप्रक्षेपप्रायैः किं प्रयोजनं तैः ? चकारस्तुल्ययोगितायां पक्षान्तरे वेति ।।९.१२।।
-
[२२३] दान - श्रुत ध्यान तपो ऽर्चनादि, वृथा मनोनिग्रहमन्तरेण ।
-
कषाय-चिन्ताऽऽकुलतोज्झितस्य, परो हि योगो मनसो वशत्वम् ।।९.६।।
धनवि . - - अथ
मनोनिग्रहमन्तरेण दानादिधर्मव्यर्थतां दर्शयन्नुपदिशति
'दान- श्रुत' इति, मनोनिग्रहमन्तरेण मनसो वशीकरणं विना दान - श्रुत-ध्यानतपोऽर्चनादि धर्मकर्मेति गम्यं वृथा-मिथ्या स्यादिति, तत्र दानं च अभयदानसुपात्रदान-अनुकम्पादान- उचितदान - कीर्त्तिदानभेदात् पञ्चधा, यदुक्तम्-"
[२२४] अभयं सुपत्तदाणं अणुकंपा उचिय - कित्तिदाणं च ।
तिन्निहिं मोक्खो भणिओ दुन्नि य भोगाइयं दिंति ।।[
-
]।।" इति,
श्रुतं च-श्रुतज्ञानं शास्त्राध्ययनमित्यर्थः, ध्यानं च-धर्मध्यानादि, तपश्च द्वादशभेदम्, अर्चनं च-अष्टप्रकारादिपूजा, ततो द्वन्द्वः, तान्यादौ- प्रथमं यस्य तत् तथा, आदिपदात् तीर्थयात्रा-प्रतिष्ठादिधर्मकर्मपरिग्रहः, अत्रोक्तार्थे हेतुमाह - हि यतः कारणात्, कषायेभ्यः-क्रोधादिभ्यः चिन्ता - आर्त्तध्यानरौद्रध्यानात्मिका तया, आकुलताव्याकुलता तया, उज्झितस्य रहितस्य पुरुषस्य मनोवशत्वं - मनसः स्वायत्तत्त्वं, परः- प्रकृष्टो योगो-मुक्त्यङ्गं भवतीत्यर्थः ननु पूर्ववृत्ते नियमवैयर्थ्यकथनेन तदन्तःपातितपोवैयर्थ्यं प्रतिपादितमेव, पुनरत्र तपोवैयर्थ्यप्रतिपादने पौनरुक्त्यं १. '०पैर्व्युदस्तम्' मु० ।