________________
१३६
श्रीअध्यात्मकल्पद्रु
[२१२] "तं सुरविमाणविभवं चिंतिय चवणं च देवलोगाओ ।
अइबलियं चिअ जन्नवि फुट्टइ सयसक्करं हिययं" ।।[उप.२८६]।। इत्यादिगाथाभावनया, [तथा] भगवतीसूत्रे प्रथमशते सप्तमोद्देशके देवाश्च्यवनकालेऽग्रेतनभवोत्पत्तिस्थानमसमञ्जसं दृष्ट्वा कियत्कालमनाहारका भवन्तीत्यादि - भावनया च स्पष्ट एवेति ।।८.२.४।।
रत्न. -अथ सुरगतिमाश्रित्य दुःखानि दर्शयति
मुधाऽन्यदास्य..इति. व्याख्या - मुधा - वृथा, मनुष्यास्तु वेतनग्रहणेनोदरभरणार्थं दास्यादि कर्म कुर्वन्ति, देवास्तु वेतनोदरभरणे विनैव तत् कुर्वन्तीति मुधाशब्दप्रयोगः, अन्येषाम्-इन्द्रादीना दास्यं - दासकर्म, तेषामेवाभिभवः - पराभवो, वज्रादिना ताडनादिकः तथाऽभ्यसूया-परस्परमीर्ष्या, इतरेतरद्वन्द्व, ता भवन्तीत्यन्वयः, अन्तश्च-च्यवनं, गर्भस्थितिः-गर्भवासः, तथा दुर्गतयः श्वपचादिकुलोत्पत्तिलक्षणा वा, इतरेतरद्वन्द्व, तासां भियो-भयानि भवन्तीति - एवममुना प्रकारेण सुरेष्वप्यसुखानि भवन्ति, कथं? नित्यं वा पुनस्तेन हेतुना तेषां सुखैस्तत्सुखैः किं स्याद् ? अपि तु न किमपि । ततः किंलक्षणैः ? - परिणामेन - परिपाकेन दुःखयन्तीति दुःखानि तैः, अत्र गर्भस्थितिभीकथनेन ग्रैवेयका - ऽनुत्तरसुराणामपि दुःखं गृहीतम्, अन्यथा तेषां दास्याद्यभावात् कथं दुःखानि स्युरिति ? ।।९.४।।
·
[२१३] सप्तभीत्यभिभवेष्टविप्लवाऽनिष्टयोग-गद - दुःसुतादिभिः । स्याद् ध्रुवं विरसता नृजन्मनः, पुण्यतः सरसतां तदानय ।।८. २.५ ।।
धनवि . - . - अथ
शास्त्रोक्तं मनुष्यगतिगतदुःखस्वरूपं दर्शयन्नुपदिशति
‘सप्तभीति' इति-यद्-यस्मात् सप्त भीतयश्च - पूर्वोक्ता, अभिभवश्च पराभव, इष्टविप्लवश्च- प्रियवियोगः, अनिष्टयोगश्च - अप्रियसंयोगः, गदाश्च - रोगा,
दुःसुताश्च
१. द्वन्द्वः - मु० ।
-