________________
१३७
शास्त्रगुणद्वारम् कुपुत्रा इति द्वन्द्वः, ते आदिर्येषां ते तथा तैः, आदिपदात् कुग्रामविास]कुनरेन्द्रसेवा-कुभोजन-कुकलत्र-निर्धनत्व-निष्पुत्रत्व-कन्याबहुत्वादिभिः । "दुष्कुटुम्बकै रिति वा पाठः - अत्र पाठान्तरेण दुष्कुटुम्बकैः-अपरमात्रादिभिः, ध्रुवंनिश्चितं नृजन्मनः-मनुष्यावतारस्य विरसता-वैरस्यं स्याद्-भवति, तत्-तस्मात् पुण्यतो-धर्मकर्मतो, नृजन्मनः सरसता-सारस्यमानय-प्रापयेति ।।८.२.५।।
रत्न.-अथ मनुष्यगतिसम्बन्धिदुःखान्याह -
'सप्तभीति' इति, - व्याख्या-ध्रुवं निश्चितं नृजन्मनो-मनुष्यभवस्य, विरसतारसराहित्यं स्यात्, निःस्वादता स्यादित्यर्थः, कैः ? - इहलोक १,-परलोका२,-ऽऽदाना ३,-ऽऽकस्मिका ४-ऽऽजीविका ५,-मरणा ६,-ऽयशोभय ७,-लक्षणास्सप्त भीतयः, तथा राजा-ऽऽमात्य-बलवदादीनामभिभवः, तथेष्टानां-स्त्र्यादीनां विप्लवोविरहः, तथा अनिष्टानां-दस्यु-पारदारिक-पिशुनानां योगः-सम्बन्धः तथा गदारोगाः, तथा दुः-दुष्टाः सुताः-पुत्राः, ते आदौ येषां, तैर्हेतुभिः, आदिशब्दाद् दुर्भ्रातृ-भार्यादीनां ग्रहणं, तथा दुष्कुटुंबकैरिति वा पाठान्तरं । हे आत्मन् ! तत् कारणात्, तस्य नृजन्मनः सरसतां पुण्यतः-पुण्यकार्यकरणादानय, अत्र रसशब्दो लक्षणया प्रयुक्तः, यथा सरसं वस्त्रादि मनोहरं सु-स्वादु सुखदं च भवति, तथा नृजन्मापि कुरुष्वेत्यर्थः ।।९.५।। [२१४] इति चतुर्गतिदुःखततीः कृतिन् ! -
-नतिभयास्त्वमनन्तमनेहसम् | हृदि विभाव्य जिनोक्तकृतान्ततः, .
कुरु तथा न यथा स्युरिमास्तव ।।८.२.६ ।। धनवि.-इति चतुर्गति-इति हे कृतिन् ! - हे पण्डित ! त्वमनन्तमनेहसम्अनन्तं कालं यावदनुभूता, इति-अनन्तरोक्तस्वरूपा, अतिशयेन भयं यासु ता अतिभयाः, चतुर्गतिदुःखतती-र्जिनोक्तकृतान्ततो-भगवदुक्तसिद्धान्ततो हृदि-चित्ते, विभाव्य-विचिन्त्य तथा-तेन प्रकारेण, धर्मं कुरु-विधेहीति, यथा-येन प्रकारेण