________________
शास्त्रगुणद्वारम्
१३५ महिषाणां महिषेभ्यो, गजानां गजेभ्यश्चेत्यादि, अन्यजातीयेभ्यो गजानां सिंहेभ्यः, सिंहानां सरभेभ्यश्चेत्यादि भयं, तथाऽपमृत्यु-क्षुत्-तृङ्-गाढवेदना-ऽऽक्रान्तत्वेन मरणं, तो इति-अमुना प्रकारेण दुःखानि भवन्तीति योगः, किंलक्षणानि? - दारुणानि भयङ्कराणि केषु ? - तिर्यक्षु ।।९.३.।। [२११] मुधाऽन्यदास्या-ऽभिभवा-ऽभ्यसूया,
भियो-ऽन्त-गर्भस्थिति-दुर्गतीनाम् । एवं सुरेष्वप्यसुखानि नित्यं,
किं तत्-सुखैर्वा परिणामदुःखैः ? ||८.२.४।। धनवि.-अथ शास्त्रोक्तं देवगतिस्वरूपं दर्शयन्नुपदिशति - 'मुधा' इति,-मुधा-उदरपूरणार्थरहितम्-अन्येषां दास्य-
किङ्करता, अभिभवश्चदेव्याः परबलवत्तर-देवैर्बलात्कारेण प्रविचारणादिः, अभ्यसूया च-अभि-सामस्त्येनासूया-परगुणासहनम्, 'असूयाऽन्यगुणदूषणम् इति [अभि.चि.-३२३] वचनाद् मत्सर इत्यर्थः, मुधाऽन्यदास्या-ऽभिभवा-ऽभ्यसूया भवन्ति, च पुनर्-अन्ते-देवभवस्थितिपर्यवसाने यद् वाऽन्तश्च-देवभवायुःपर्यवसानं, गर्भस्थितिश्च-मनुष्यतिर्यकत्रीणामुदरेषु गर्भत्वेनावस्थानं, दुर्गतयश्च-पृथिव्यायेकेन्द्रियेषु गमनानि, अन्तगर्भस्थिति-दुर्गतयस्तासां[भियः भयानि]एवम्-अमुना प्रकारेणोक्तानि, असुखानिदुःखानि सुरेष्वपि-देवगतिगतजन्तुष्वपि नित्यं-निरन्तरं भवन्ति, अत्र सुरेष्वपीत्यत्र अपिशब्दो, यदि सुरेष्वपि दुःखानि तदा नारकादीनां का वार्तेति सकलसंसारस्य दुःखमयत्वद्योतकः । - ----
ननु देवभवेषु सुखान्यपि बहूनि भवन्तीति किमलपैरुपवर्णितैर्दुःखैः ? - इत्याकाङ्क्षायामाह-वाऽथवा तत्सुखैः-देवभवसुखैः परिणामदुःखैः-परिणामेनपरिपाकेणान्ते प्राक्कृतपुण्यक्षयलक्षणेन, दुःखैः-दुःखजनकैः किं स्याद् ?; न किमपीत्यर्थः; भावार्थस्तु -