________________
१३४
श्रीअध्यात्मकल्पद्रुमे हृष्यसि, किंलक्षणैः? - क्षणं यावत् सुखयन्तीति क्षणसुखास्तैः, त्वं कीदृशः ? - कषायी-कषायवान् ।।९.२।। [२१०] बन्धोऽनिशं वाहन-ताडनानि,
क्षुत्-तृड्-दुरामा-ऽऽतप-शीत-वाताः | निजा-ऽन्यजातीयभया-ऽपमृत्यू,
दुःखानि तिर्यक्ष्विति दुःसहानि ||८.२.३।। धनवि.-अथ शास्त्रोक्तं तिर्यग्गतिस्वरूपं दर्शयन्नुपदिशति -
'बन्ध' इति-अनिशं-निरन्तरं बन्धो-रज्ज्वादिभिर्नियन्त्रणं दुःखं भवति, च पुनरनिशं वाहनानि च रथ-जल-यन्त्र-तैल-यन्त्रादिषु योजनानि, ताडनानि चकशा-ऽङ्कुश-प्राजनादिना प्रहारविषयीकरणानि, वाहन-ताडनानि, दुःखानि भवन्ति, च पुनः क्षुच्च-क्षुधा, तृट् च-तृषा, दुरामाश्च-दुष्टरोगाः - मुखपाक-पादपाककुष्ठादयः, आतपाश्च उष्णत्प्रभवाः, शीतानि च-शीतकालप्रभवाणि शैत्यानि, वाताश्च-वर्षाऋतुप्रभवाः पवनाः, क्षुत्-तृङ्दुरामा-ऽऽतप-शीत-वाताः दुःखानि भवन्ति, च पुनर्यत्र निजान्यजातीयभयं च-स्वजातीय-परजातीयजन्तुभ्यो भीतिः अपमृत्युश्चगलमोडन-गलकर्त्तनादिनामरणं निजान्यजातीयभया-ऽपमृत्यू दुःखे भवतः, इत्यमुना प्रकारेणोक्तानि तिर्यक्षु-तिर्यग् गतिगतजन्तुषु दुःखानि दुःसहानि-दुःखेन सहनीयानि भवन्तीत्यर्थः ।।८.२.३।। रत्न.-अथ तिर्यगांश्रित्य दुःखानि दर्शयति -
बन्धोऽनिशम् इति. व्याख्या.अनिशं-निरन्तरं बन्धो-बन्धनं, अनिशमिति सर्वत्र योज्यं, भवति, भवतो, भवन्ति चेति यथार्ह योजनीयम्, वाहनानिअतिभारस्योत्पाटनानि रथादौ, कृषिकर्मणि योजनानि वा ताडनानि प्राजनकादिभिः तथा क्षुद-बुभुक्षा, तृष्णा-तर्षा, दुष्टा आमा-रोगाः अतिभारवाहनसंजातव्रणादिकाः, तथा आतपः शीतं वातो-वायुः, तेषां इतरेतरद्वन्द्वः, तथा निजा-ऽन्यजातीयेभ्यो १. तिर्यग्गतिमा० मु० ।