SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १३२ श्रीअध्यात्मकल्पद्रुमे किञ्च-अत्र शैत्य-तापस्वरूपं श्रीजीवाभिगमतृतीयपदद्वितीयोद्देशकप्रदर्शितदृष्टान्तचतुष्टयेनावसेयं, तद्यथा- १. केनचित् समर्थेन दक्षेण लोहकारपुत्रेण पक्षं यावत् पुनः पुनः माते कुट्टिते घटप्रमाणे लोहगोलके नरकशीतभूमौ मोचिते, एकेनैव मेषोन्मेषान्तरेण पुनरुद्धर्तुमीप्सिते स लोहकारस्तं लोहगोलकं नरकभूमिगतशैत्येन द्रुतमेव विलीनमेव पश्यति, इतोऽपि शैत्यादधिकतरं शीतं नरके इति शैत्यदृष्टान्तः । २. अथ तेनैव लोहकारेण मासं यावत् पुनः पुनर्माते कुट्टिते पुनः शीतीकृते च लोहगोलके उष्णनरकभूमौ मोचिते मेषोन्मेषान्तरेण पुनरुद्धर्तुमीप्सिते नरकभूमि-गतोष्णत्वेन स तं विलीनमेव पश्यति, इतोऽप्यधिकतरमुष्णत्वं नरके इत्युष्णदृष्टान्तः । ३. पुनरत्रार्थे दृष्टान्तद्वयं, यथा मत्तो गजस्तृषाक्रान्तो दवाद् भीतस्तोयपूर्णां पुष्करिणीं प्राप्य यथा मोदते तथा शीतवेदनान्नरकादुद्धृतो नारकी मनुष्यसंबंधिनमतिशयेन शीतं हिमपुञ्जादिकं प्राप्य नरकगतौ शीतवेदनामपाकुर्वन् मोदते, इतोऽप्यधिकतरा नरकेषु शीतवेदना, इति शैत्ये हस्तिदृष्टान्तः । ४. एवमुष्णवेदनायां तथाविध एव हस्ती तथाविधां पुष्करिणीं प्राप्य यथा मोदते तथोष्णवेदनान्नरकादुद्धृतो नारकी मनुष्यलोकसम्बन्धिनमत्युष्णं ताम्राद्याकरं प्राप्य नरकभूमिगततापमपाकृत्य मोदते, इतोऽप्यधिकतरोष्णवेदना नरकेषु इत्यादि । विस्तरार्थिभिम्रन्थान्तरतोऽवसेयम् ||८.२.१।। धनवि.-'तीव्रा' इति-च पुनर्यत्र नरके तीव्रा-दुःसहाः सुरकृता:-परमाधार्मिकदेवकृता विविधाः-छेदन-भेदन-पचनादिका व्यथा-पीडाः सन्ति, अत्र परमाधार्मिककृता इत्युपलक्षणं, तेन - [बृहत्सङ्ग्रहण्याम्] [२०९] "सत्तसु खित्तज-वेयण-अन्नुन्नकया वि पहरणेण विणा । पहरणकया वि पंचसु तिसु परमाहम्मियकया वि' ।। [२०६] ।। इत्यादिग्रहणं, हे कुमते ! - हे कुबुद्धे ! अमुष्माद्-अनन्तरोदितस्वरूपात् सततं-निरन्तरम्, आक्रन्दारवैः-आक्रन्दशब्दैः, अभ्रभृतः-अभ्रं-नभोमार्ग भरतिपूरयतीत्यभ्रभृत् तस्मात्, तथा भाविनो-भविष्यतो नरकाद्-नरकगतेः, किमिति
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy