________________
अथ चतुगर्तिमाश्रित्य - द्वितीयं प्रतिद्धारम्
[२०७] दुर्गन्धतो यदणुतोऽपि पुरस्य मृत्यु - रायूंषि सागरमितान्यनुपक्रमाणि । स्पर्शः खरः क्रकचतोऽतितमामितश्च, दुःखावनन्तगुणितौ भृशशैत्य-तापौ ।।८.२.१ ।।
[२०८] तीव्रा व्यथाः सुरकृता विविधाश्च यत्रा -
ऽऽक्रन्दारवैः सततमभ्रभृतोऽप्यमुष्मात् । किं भाविनो न नरकात् कुमते ! बिभेषि ?, यन्मोदसे क्षणसुखैर्विषयैः कषायी ।।८.२.२ ।।
'युग्मं'
धनवि.:वे. - अथ चतुर्गत्याश्रितोपदेशः - अथ शास्त्रद्वारे एव शास्त्रोपदिष्टचतुर्गत्याश्रितोपदेशाख्यं प्रतिद्वारं वक्तुकाम आह अथेति शास्त्राण्याश्रित्योपदेशानन्तरं शास्त्रोक्तचतुर्गत्याश्रितोपदेशः कथ्यत इत्यक्षरार्थः, तत्र प्रथमं पद्यद्वयेन शास्त्रोक्तं नरकगतिस्वरूपं दर्शयन्नुपदिशति
'दुर्गन्धतः' इति यस्य नरकस्य, अणुतोऽपि परमाणुकणोपमितादपि [यदणुतोपि ] दुर्गन्धतो- दुरभिगन्धतोऽहिमृतकादिस्वरूपतः, पुरस्य - लक्षणया मनुष्यलोकसम्बन्धिसकलनगरलोकस्य मृत्यु:-मरणं भवति च पुनर्यत्र नरके अनुपक्रमाणि निरुपक्रमाणि सागरमितानि-दशकोटाकोटिपल्योपमरूपसागरोपम-प्रमाणानि अर्थादुष्कृष्टतस्त्रयस्त्रिंशत्सागरोपम-प्रमितानि, आयूंषि - जीवितानि सन्तीति च पुनर्यत्र नरके स्पर्शःस्पर्शनेन्द्रियग्राह्यो गुणः, क्रकचतोऽपि करपत्रस्पर्शादपि, अतितमाम् अतिशयेन खरः-कर्कशो भवतीत्यर्थः च पुनर्यत्र नरके दुःखौ-दुःखोत्पादकौ, इतो - मनुष्यलोकगतशैत्यतापाद्, अनन्तगुणितौ- अनन्तनामकगुणकारेण गुणितौ भृशम्अत्यर्थं शैत्य-तापौ स्तः ।
"
१. इत्यर्थः मु० ।
-
-