________________
१३०
श्रीअध्यात्मकल्पद्रुमे फलसत्त्वात्; अत्र दृष्टान्तमाह-यद्-यस्मात् कारणात् सितायाः-शर्कराया वहनश्रमादउत्पाटनपरिश्रमात् खरो-गर्दभः सुखी-सुखवान् न स्यादिति, यदुक्तम् - [२०५] "जहा खरो चंदणभारवाही, भारस्स भागी न ह चंदणस्स ।
एवं खु नाणी चरणेण हीणो, नाणस्स भागी न हु सुग्गईए ।।[उप.४२६] ।।'
इति शास्त्रनाम्नि षोडशपद्ये, अष्टमद्वारे नव पद्यैः केवलशास्त्राण्याश्रित्योपदेशमयं प्रथमं प्रतिद्धारम् । इति ||८.१.९।।
रत्न.-'अधीतिमात्रेण' इति, व्याख्या-हे जीव ! - हे आत्मन् ! केवलमधीतिःअध्ययनं अधीतिमात्रं तेन, क्रियारहिताध्ययनेनेत्यर्थः, आगमा न फलन्ति, कैः? - कस्मिन् ? - भवान्तरे सुखैः, किंलक्षणैः ? - समीहितैः-वाञ्छितैर्मोक्षसुखैरित्यर्थः, मोक्षसुखरूपफलप्रदायिनो न भवन्ति, किन्तु इतिविशेषे, तैरागमैरीरितैः-कथितैः, स्वनुष्ठितैः-सदनुष्ठानैः कृतैः, सद्भिः आगमाः फलन्ति, यथाऽऽम्रादयो वृक्षाः आम्रादिभिः फलैः फलन्ति, तथाऽऽगमाः सुखैरेव फलैः फलन्तीत्यर्थः । तत्रार्थे दृष्टान्तमाह-यद्-यस्मात्, खरो-रासभः, सितायाः-शर्करायाः वहनश्रमादउत्पाटनक्लमान्न सुखी स्यात्, क्रियाहीनस्य केवलाधीतिनः खरोपमानं, आगमस्य सितोपमानं, यथा सिताया वहनश्रमः, तथा आगमस्य पठन-पुस्तकवहनश्रम इति ||८.९।।
[२०६] श्रीशान्तिचन्द्रवरवाचकदुग्धसिन्धु
लब्धप्रतिष्ठवरवाचकरत्नचन्द्रः ।
अध्यात्म-फलदस्य चकार वृत्तिं, तत्राष्टमोऽर्थविषयत्वमितोधिकारः ||८||
इत्यष्टमोऽधिकारः संपूर्णः ।। १. धनवि-टीकायां अष्टमेऽधिकारे द्वे प्रतिद्वारे स्तः, तत्र ९२ पद्यादारभ्य-१०० तम पद्यं यावत् प्रथम प्रतिद्वार, द्वितीयं च १०१ तः-१०७ तमं यावत्, किन्तु रत्नवि. टीकायां अष्टमोधिकारः ९२तम पद्यतः - १०० तमे पद्ये पूर्णो भवति, १०१ पद्यतः १२४ पद्ये नवमोधिकारः पूर्यते, धनवि.टीकायां तु नवमोधिकारः १०८-१२४ तमेषु पद्येषु, अतः द्वयोरधिकारयोरयं भेदो वृत्तिकृतो विवक्षया इति समाधानमाधेयम्, अतोऽस्माभिरपि - अथ अधिकारपद्यसङ्ख्या वृत्तिकृतोऽभिप्रायेण कृता- (सं.)