________________
शास्त्रगुणद्वारम्
१२९ →स मुग्धमतिरपि, अल्पाध्ययनेऽपि ऋजुमतिरित्यर्थः, धन्यः-सुकृती, सः कः ? उदिता-कथिताऽर्हतां-तीर्थंकराणामाज्ञा, तस्यां रागेण-प्रेम्णा, माऽर्हदाज्ञाभङ्गोऽस्त्विति प्रेम्णेत्यर्थः । पुण्यं सृजति-करोति । विशेषणेन मुग्धमतित्वं दर्शयति-यतः किंलक्षणाः ? - न विद्यन्ते दुः-दुष्टा विकल्पा:-चित्ताभिप्राया यस्य सः, 'तुरिति विशेषे → पुनरस्य 'मुग्धमतिविपरीतस्यासद्ग्रह-ग्रस्तस्येत्यर्थः, पाठेन-अध्ययनेन किं स्याद् ? - न किमपीत्यर्थः, कस्यचिदैहिक-पूजासत्कारादिस्पृहयालुत्वादध्ययने आसक्तिवर्त्तते, तेनाध्ययनं करोति, परं तस्याध्ययनं न किञ्चिदित्यर्थः, एतदेव हेतुदर्शनेन द्रढयति-व्यसनतः-सप्तव्यसनेभ्यो दुर्विकल्पैः-कं केन काव्यादिना रञ्जयामि ?, कस्य पार्श्वे किं गृह्णामि, कं च कां च व्यामोहयामीति चित्ताभिप्रायजालैरित्यर्थः, अत्र-इह लोके दुःस्थितः-तादृगिष्टवस्त्वप्राप्त्या दुःखितो वर्त्तते, अत एव किंलक्षणः ? - प्रमादी-प्रमादवान्, कासु ? - सदनुष्ठितिषुशोभनानुष्ठानेष्विति ।।८.८ ।। इति वा पाठ-पूर्वोक्तस्यैव काव्यस्य पाठान्तरमित्यर्थः ।।
[२०४] अधीतिमात्रेण फलन्ति नागमाः,
समीहितैर्जीव ! सुखैर्भवान्तरे | स्वनुष्ठितैः किन्तु तदीरितैः खरो,
न यत् सिताया वहनश्रमात् सुखी ।।८.१.९।। धनवि.-अत्र शास्त्राण्याश्रित्योपदेशमुपसंहरन् केवलस्याध्ययनस्य जन्मान्तरीयसुखं प्रति कार्यकारणभावेऽन्वय-व्यतिरेकाभ्यां व्यभिचारं दर्शयन्नुपदिशति -
'अधीतिमात्रेण' इति-हे जीव ! - प्राणिन् आगमा-सिद्धान्ता अधीतिमात्रेणकेवलाध्ययनेन, भवान्तरे-परभवे समीहितैः-वाञ्छितैः सुखैः स्वर्गापवर्गजैन फलन्तिन सफला भवन्ति, अयमन्वयव्यभिचारः अध्ययनसत्त्वे फलासत्त्वात्, अत्रापि मात्रशब्दोऽध्ययन-व्यतिरिक्तक्रियादिप्रतिषेधवाचकः; किंतु तदीरितैः-आगमप्रतिपादितैः स्वनुष्ठितैः-शोभनानुष्ठानैरागमाः फलन्ति, अयं व्यतिरेकव्यभिचारः, अध्ययनासत्त्वे १. अत्रापि टी.पा. विद्यते । २. '→.......... अनयोर्मध्यगतः पाठः ह. प्र. मध्ये नास्ति । ३. सदनुष्ठा० मु० ।