SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२८ श्रीअध्यात्मकल्पद्रुमे जप-तपः-क्रियासु अलसाः-शीतकाः सन्ति, प्रमादिनः सन्तीत्यर्थः, किं कुर्वन्तो? - दधतः, कान् ? - तेषामागमानां पुस्तकान्, अनेन क्रियाशैथिल्येऽपि बहुपुस्तकसङ्ग्रहित्वं सूचितमिति । हा इति खेदे, ते नामसाधवः, प्रेत्य-परभवे किं भाविनः ? - किं भविष्यन्ति, किंशब्दस्य काकुध्वनिव्याख्यानेन महादुःखिनो भाविन इति सूचनमिति ।।८.७ ।। [२०३] धन्यः स मुग्धमतिरप्युदितार्हदाज्ञा रागेण यः सृजति पुण्यमदुर्विकल्पः | पाठेन किं व्यसनतोऽस्य तु दुर्विकल्पैर्यो दुःस्थितोऽत्र सदनुष्ठितिषु प्रमादी ? ||८.१.८।। इति वा पाठः । धनवि.-अनन्तरोक्तमेवार्थं बहुवचनगर्भ पाठान्तरेणैवैकवचनगर्भं दर्शयति - 'धन्य' इति-स पुरुषो मुग्धमतिरपि-शास्त्राध्ययनाद्यसंस्कृतबुद्धिरपि, धन्य:पुण्यवान् भवति, उदित-उत्पन्नो योऽसौ, अर्हतां-तीर्थकृताम्, आज्ञा-वचनानि तेषु रागो-भक्तिविशेषः - "तमेव सच्चं निस्संकं जं जिणेहिं पवेइयं इतिरूपः, तेनउदितार्हदाज्ञारागेण, यः पुमान् अदुर्विकल्प-शङ्काऽऽकाङ्क्षादि-दुष्टविकल्परहितः, पुण्यं-तपः-संयमादिकं सृजति-करोतीत्यर्थः, तु पुनर्-अस्य पुरुषस्याग्रे यच्छब्दाभिधेयस्य, व्यसनतः-अत्यासक्तितः पाठेन-शास्त्राध्ययनेन, किं फलं स्यादिति काकूक्त्याऽन्वयः, यः पुमान्, अत्र-जगति दुर्विकल्पैः-दुश्चिन्तनैः करणभूतैर्दुस्थितोदुःस्थावस्थां प्राप्तः सन् सदनुष्ठितिषु-षडावश्यकादिसदनुष्ठानेषु प्रमादी-अलसः स्यात् ? ||८.१.८ ।। उक्तस्यैव पद्यस्य पाठान्तरं दर्शयति-इति वा पाठ इति स्पष्टम् । रत्न.-पुनरर्थान्तरेण तदेव दृढयति - धन्यः स मुग्धमतिरिति. व्याख्या-स पुमान् मुग्धा-असदाग्रहरहिता मतिर्यस्य १. हा इति एदर्थ-अव्यय इति व्याख्याति. - अतः 'प्रेत्य हा' इति टीकापाठान्तरः संभावनीयः । २. धनवि. 'अत्र' मुग्ध-इति शास्त्राध्ययनाद् असंस्कृता इति अत्र 'जडधीत्वमिति भावः व्याख्याति रत्नवि:तु-मुग्धा असदाग्रहरहिता इति व्याख्याति - अत्र 'सरलधीत्वमिति भावः ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy