________________
शास्त्रगुणद्वारम्
मूर्खान्, कस्मिन् ? कर्मणि, किंलक्षणे ? प्रेत्य-परलोके हिते - हितकारिणि
।।८.१.४ ।।
-
[१९९] किं मोदसे पण्डितनाममात्राच्-छास्त्रेष्वधीती जनरञ्जकेषु ।
तत् किञ्चनाधीष्व कुरुष्व चाशु, न ते भवेद् येन भवाब्धिपातः ।।८.१.५।।
धनवि. —अथ सकलशास्त्राध्ययनापेक्षया धर्मशास्त्राध्ययनस्यैव प्राधान्यं दर्शयन्नुपदिशति
'किं मोदसे' इति - हे आत्मन् ! जनरञ्जकेषु-लोकचमत्कारकारिषु ज्योतिःशकुन-निमित्तादिशास्त्रेषु अधीतमनेनाधीती - अध्ययनशीलः संस्त्वं किं मोदसेहृष्यसि ?, कुतो ? नामैव नाममात्रं परमार्थतोऽर्थशून्यं पण्डित इति नाममात्रं पण्डितनाममात्रं तस्मात् पण्डितनाममात्राद्, इति; हे आत्मन् ! त्वं किञ्चन धर्मशास्त्रम्, अधीष्व अध्ययनविषयीकुरुष्व च पुनरध्ययनानन्तरं, तत् किञ्चन तपः-संयमादिकम्, आशु शीघ्रं कुरुष्व येन अध्ययनेन तपः- संयमादिना च ते-तव भवाब्धिपातः - संसारसमुद्रपतनं न स्यादिति, अत्र' अधीती इतिप्रयोगः 'इष्टादेः'इति [सि.हे.७-१-१६८ ] तद्धितसूत्रेण इञ्प्रत्यये साधुः ।। ८.१.५ ।।
-
१२५
रत्न. - पुनस्तदेव दृढयति
किं मोदसे इति., व्याख्या - हे विद्वन् ! पण्डितस्य नाम पण्डितनाम केवलं पण्डितनाम पण्डितनाममात्रं तस्मात् पण्डितनाममात्रात् त्वं किं मोदसे ? अधीतीहर्षं प्राप्नोषि ?, अपि तु मा मोदस्व, यतः त्वं किंलक्षणः ? अध्ययनवान्, केषु ? - शास्त्रेषु, किंलक्षणेषु जनानां रञ्जकानि-मनआह्लादकारीणि काव्य-नाटक-वसंतराजादीनि तेषु परं तत् किञ्चन शास्त्रमधीष्व पठ, च पुनस्तच्छास्त्रज्ञानं कुरुष्व, कथं ? आशु शीघ्रं येनाधीतेन येन कर्मणा च ते-तव भवाब्धिपातो-भवसमुद्रपतनं न भवेद्, एतेन जिनागममधीष्व तदुपदिष्टं
"
-
,
-
-