SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १२६ श्रीअध्यात्मकल्पद्रुमे च कुरुष्वेति सूचितमिति ।।८.१.५।। [२००] धिगागमैर्माद्यसि रञ्जयन् जनान्, नोद्यच्छसि प्रेत्यहिताय संयमे । दधासि कुक्षिभरिमात्रतां मुने !,--- क्व ते ? क्व तत् ? क्वैष च ते भवान्तरे ? ||८.१.६।। धनवि.-अथागमाध्येतॄन् संयमाऽनुद्यतान् तिरस्कारपुरस्कारेणोपदिशति - 'धिगागमैर्' इति-हे मुने ! त्वां धिगस्तु, अत्र यत इति गम्यं, तेन यतः कारणाद्, आगमै-सिद्धान्ताध्ययनैर्जनान्-लोकान् रञ्जयनङ्गमुत्पादयन् माद्यसि-मदवान् भवसि, यच्च प्रेत्यहिताय-परलोकसुखार्थं संयमेचारित्रे नोद्यच्छसि-नोद्यमं कुरुषे, ततः कारणात्, त्वं कुक्षिभरिमात्रता-स्वोदरपूरकतामेव दधासि-धरसि; परं भवान्तरेपरभवे ते आगमाः, ते-तव क्व भविष्यन्ति ?, च पुनस्तत् प्रेत्यहितं ते-तव क्व भविष्यति ?, च पुनर एष संयमस्ते-तव क्व भविष्यतीति ?, नन्वत्र धिगिति तिरस्कारवचनं, तच्च धर्मशास्त्रे धर्मोपदेशे च न युज्यत इति चेत् ? न - [श्राद्धदिनकृत्ये] [२०१] रूसउ वा परो मा वा, विसं वा परिअट्टओ । भासिअव्वा हिया भासा, सपक्खगुणकारिया ।।[२११] ।। इति वचनात् स्ववर्गस्य शिष्यवर्गस्येव पुत्रस्येव वा तिरस्कारपूर्वकं हितोपदेशस्य युक्तत्वादिति ||८.१.६ ।। रत्न.-अथ क्रियां विना केवलं जिनागमाध्ययनं वृथेति सूचयति - धिगागमैः-इति., व्याख्या-हे मुने ! - हे यते ! त्वां धिगस्तु, यतस्त्वमागमैःजिनागमाध्ययनैरित्यर्थः जनान् रञ्जयन् माद्यसि-मदं प्राप्नोषि, हर्षं प्राप्नोषीत्यर्थः, यतश्च प्रेत्य-परभवे हितार्थं त्वं संयमे-चारित्रे न उद्यच्छसि-नोद्यमं करोषि, ततस्त्वं कुक्षिभरिमात्रतां दधासि-धत्से, परं भवान्तरे ते-तव ते जिनागमाः क्व? एतज्जनरञ्जनं क्व ? एष संयमः-चारित्रं क्व ?, अत्र त्रयोऽपि क्वशब्दा १. सूचनमिति - मु० ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy