________________
८. शास्त्रगुणाधिकारस
[शास्त्राश्रितोपदेशं प्रथमं प्रतिद्धारम्] अथानन्तरद्वारे कषायनिग्रह उपदिष्टः, स च शास्त्रश्रवणाधीन इति शास्त्राण्याश्रित्योपदेशमभिधित्सुराह -
अथ शास्त्राण्याश्रित्योपदेशः - अथ शास्त्राण्याश्रित्योपदेश इति, अथ इति कषायनिग्रहोपदेशानन्तरं तन्निमित्तभूतशास्त्राण्याश्रित्योपदेश उच्यते इत्यर्थः । [१९५] शिलातलाभे हृदि ते वहन्ति,
विशन्ति सिद्धान्तरसा न चान्तः | यदत्र नो जीवदयाऽऽर्द्रताऽऽस्ते,
न भावनाङ्करततिश्च लभ्या ।।८.१.१।। धनवि.-तत्र प्रथमं शास्त्रश्रवणेऽपि येषां प्रमादपरिहारो न भवति तानुपदिशति'शिलातलाभे' इति-हे आत्मन् ! तत्-तस्मात्, ते-तव शिलातलाभे-शिलातलसदृशे हृदि-हृदये सिद्धान्तरसा-जिनागमजलानि वहन्ति-प्रवाहमार्गेणोपरि गच्छन्तीत्यर्थः, च पुनर्-अन्तः-मध्ये न प्रविशन्ति, हृदयस्य कठिनत्वात्, 'आगमोक्तं मया कार्यम्' इत्यादिरूपा रसा मनसि नायान्तीत्यर्थः, यद्-यस्माद् अत्रैव-इहभवे तेतव जीवदयार्द्रता नो आस्ते-नास्ति, च पुनर्भावनाङ्क्रततिः-द्वादशभावनारूपाकै श्रेणिर्लभ्या-प्रत्यक्षेण लभ्यमाना नो आस्ते-नास्ति ।।८.१.१।। - रत्न.-अथ शास्त्राण्याश्रित्योपदेशाख्योऽष्टमोऽधिकारो व्याख्याविषयीक्रियते । अथोपमानदानेन हृदयस्य काठिन्यं सूचयति -
शिलातलाभे इति., व्याख्या-हे आत्मन ! शिलातलस्याभं-सदृशं, तस्मिन् शिलातलाभे हृदि-हृदये सिद्धान्तस्य रसा वहन्ति, चेति विशेषे, अंत-मध्ये न विशन्ति-न प्रविशन्ति, यद्-यस्मात् कारणात् ते-तवात्र-हृदये जीवदयया१. स्यात् प्ररोहोङ्कुरोङ्क्रो [अभि. १११८] २. व्याख्यायते-मु० । ३. भवं (वह)ति - मु० ।