________________
शास्त्रगुणद्वारम्
१२१ जीवानुकम्पया आर्द्रता-आर्द्रत्वं सरसत्वं नो वर्त्तते, तेन कारणेन, च पुनर्भावना एवाङ्कराः तथा भावनाया वाऽङ्कराः, तेषां ततिः-श्रेणिर्न लभ्या-न प्राप्या, शिलातलेऽपि रसा-मेघजलान्युपर्येव वहन्ति, नत्वन्तः प्रविशन्ति, तत्कालं पतितस्यैव शुष्कत्वादाताऽपि न भवति, तेनाङ्करोद्गमोऽपि दुर्लभ इत्युपमानोपमेयसाम्यम्, अत्र हृच्छब्देन मन एव ग्राह्यम्, न तु बाह्यहृदयं, उपदेशादिना दुर्भेद्यत्वाज्जाड्योपेतत्वाच्च शिलातलोपमानम्, सिद्धान्तपक्षे रस्यन्ते-चय॑न्ते सामाजिकैरिति रसाः-शृङ्गारादयः, अत्र मुख्यतयोपदेष्टव्यत्वात् शान्तरस एव ग्राह्य इति ।।८.१.१।।
[१९६] यस्यागमाम्भोदरसैन धौतः,
प्रमादपङ्कः, स कथं शिवेच्छुः ? | रसायनैर्यस्य गदाः क्षता नो,
सुदुर्लभं जीवितमस्य नूनम् ।।८.१.२।। धनवि.-अथ शास्त्रश्रवणेऽपि यः प्रमादं न त्यजति, तं प्रत्युपदिशति-'यस्यागम' इति-यस्य पुरुषस्य, आगमाम्भोदरसै-सिद्धान्तरूपमेघपानीयैः, प्रमादपङ्क:-प्रमाद एव-अज्ञान १ संशय २ विपर्यय ३ राग ४ द्वेष ५ स्मृतिभ्रंश ६ योगदुष्प्रणिधान ७ धर्मानादर ८ भेदादष्टविधो, मद्यादिः पंचविधो वा, [पङ्कः] कर्दमो न धौतोन क्षालितः, स पुरुषः कथं-केन प्रकारेण शिवेच्छु: ? - मोक्षस्पृहो भवति, अत्र शिवमिच्छतीति शिवेच्छुः | उक्तमेवार्थं दृष्टान्तेन दर्शयति-यस्य पुरुषस्य रसायनैःपक्वपारद-सुवर्णभस्मादिभिः सिद्धरसैर्गदा-राजयक्ष्मादयो रोगा नो क्षताः-न क्षयं प्राप्ताः, तदा नूनं-निश्चितम्, अस्य रोगिणो जीवितं प्राणधारणं सुदुर्लभं-सुष्ठुअतिशयेन दुर्लभं-दुष्प्रापं भवतीति ।।८.१.२ ।।
रत्न.-अथागमस्योपमादानेन माहात्म्यं दर्शयति -
यस्यागमाम्भोदरसैर...इति., व्याख्या-यस्यात्मन आगमा आप्तोक्तयः एवाम्भोदाः, तेषां रसैः-जलैः शान्तरसैर्वा करणैः, प्रमादो मद्यादिः, स एव पङ्क:-कर्दमो न धौतो-न क्षालितः, स कथं शिवं-मोक्षमिच्छतीति शिवेच्छुः ?, अथवा शिवं