________________
श्रीअध्यात्मकल्पद्रुमे
पुण्यैस्-त्रिलोकी-लोकत्रयी सदा-सर्वकालं नापि सुखिता -सुखीकृता, सुखं जातमस्याः सा सुखिता, सुखवती कृतेत्यर्थः, तत्-तदा नामेति कोमलामन्त्रणे को गुणः ? • किंनामा गुणः परोपकारित्वादिर्वर्त्तते ?, च पुनः कः ? किंनामा मदोजात्यादिर्वर्त्तते ?, च पुनस्तदा का ? किंनाम्नी तव विभुता-प्रभुता वर्त्तत ?, च पुनस्तदा तव स्तुतीच्छा-स्तुतिवाञ्छा का ? किंनाम्नी वर्त्तते ?
-
अत्र षोडश भियो
[१९२] "रोग-जल-जलण-विसहर-चोरा - ऽरि-मइंद-गय-रणभयाइं"
११८
-
-
इति गाथासूचिता नव९'
[१९३] १-इह २-परलोया ३ याण ४ - मकम्हा ५-आजीव ६- मरण ७मसिलोए । सत्त य भयठाणाइं इमाइं सिद्धंतभणियाई ।। [ ] ।।'
इति गाथासूचिताः सप्त ७, एतद् गाथाव्याख्या च- १. मनुष्यादेः सजातीयादन्यस्मान्मनुष्यादेरेव सकाशाद् भयमिहलोकभयं २ तिर्यग्-देवादेः सकाशाद् भयं परलोकभयं ३. आदीयते इत्यादानं धनं तदर्थं चौरादिभ्यो यद् भयं तदादानभयं ४. अकस्मादेव बाह्यनिमित्तानपेक्षं गृहादिष्वेवावस्थितस्य रात्र्यादौ भयमकस्माद्भयं ५. निर्धनः कथं दुर्भिक्षादावात्मानं धारयिष्यामीत्याजीविकाभयं ६. मरणभयं प्रतीतमेव ७ अश्लोकभयम् - अयशोभयम्, एवं क्रियमाणे महदयशो भवति‘इत्यश्लोकभयम्- इत्यत्र विशेषव्याख्यानं प्रवचनसारोद्धारवृत्त्यादिभ्योऽवसेयं, मिलिताः सर्वा अपि षोडश भियो, यद्वा श्रीमानतुङ्गसूरिविरचितभत्तिभरअमरपणयमित्यादिस्तोत्रचतुर्थगाथावचूर्णौ
―
—
१ 'रोग २ जल ३ जलण ४ विसहर ५ चोरा ६ ऽरि ७ मृगेन्द्र ८ गजेन्द्र ९ सर्प १० संग्राम ११ डाकिनी १२ शाकिनी १३ राकिनी १४ लाकिनी १५ हाकिनी १६ काकिनीति 'जलजलणाई सोलस' इति पदव्याख्यानुसारेण षोडश भियः, तथाविधसंप्रदायाभावादेवं व्याख्याताः, तथाविधसंप्रदायावगमे च मनीषिभिः सम्यग् व्याख्येयाः ।।७.२१।।