SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ कषायनिग्रहद्वारम् च पुनस्तदा पुष्टैः-उत्कृष्टैर्विषय - कषायै; च पुनस्, तनुभिः- जघन्यैर्हास्यमद-मत्सराद्यैः प्रमादैः-मद्यादिभिः पुण्यधनं धर्मधनं लुट्यमानम् - अपह्रियमाणमपि त्वं किं न वेत्सि ? न जानासीति, काकूक्त्या; अत्र कषायदोषदर्शनाधिकारे प्रमाददोषदर्शनं कषायाणां प्रमादत्वसूचनार्थं । । ७.२० । । रत्न. -अथ लुट्यमानं धर्मधनं न वेत्सीति जीवं प्रति ज्ञापयन्नाह चौरेस्तथा कर्मकरैः ..इति., व्याख्या - हे आत्मन् ! त्वं चौरेस्तथा कर्मकरैःगृहदासैः, केवलं स्वं-स्वमात्रं बाह्यद्रव्यमित्यर्थः, तस्मिन् स्वमात्रेऽपि गृहीते सति उपतप्यसे-उपतापं प्राप्नोषि । किंलक्षणैः ? - दुष्टैः- दुराचारैः परं प्रमादैःमद्यादिभिः च पुनस्तनुभिः पुण्यमेव धनं- आन्तरं सारद्रव्यं लुट्यमानं मुष्यमाणं किं वेत्स्यपि न ? - जानास्यपि न, निराकरणं तद्विषये उपतापश्च दूरे आस्तां परं जानीहीति काकूक्त्या व्याख्यानं, प्रमादैस्तनुभिश्च किंलक्षणैः ? - पुष्टैःपोषं प्राप्तैः, प्रमादैः किंलक्षणैः ? चौरैरिव चौरैर्बहिस्तादागतत्वाच्चौरोपमानं, तनुभिः किंलक्षणैः ? कर्मकरैरिव कर्मकरैरात्मस्वामिन इति ।।७.२० ।। [१९१] मृत्योः कोऽपि न रक्षितो न जगतो दारिद्र्यमुत्त्रासितं रोग- स्तेन नृपादिजा न च भियो निर्नाशिताः षोडश । विध्वस्ता नरका न नापि सुखिता धर्मैस्- त्रिलोकी सदा, तत् को नाम गुणो ? मदश्च ? विभुता का ते? स्तुतीच्छा च का ? ।।७.२१ ।। - ११७ - , धनवि . -अथ कषायपरिहारद्वारमुपसंहरन् क्रोधादिकषायमूलमौद्धत्यं परिहर्तुमुपदिशति - ‘मृत्योः' इति-हे आत्मन् ! यदि त्वया मृत्योः-मरणात्, कोऽपि प्राणी न रक्षितो-न त्रातः, च पुनर्जगतो - विश्वजन्तुजातस्य दारिद्र्यं - दौःस्थ्यं त्वया नोत्त्रासितंन उत्-प्राबल्येन सर्वथा, त्रासं प्रापितं च पुना रोग- स्तेन नृपादिजाः षोडशषोडशसङ्ख्या भियो-भीतयो न निर्नाशिताः - त्वया न नितरां नाशं प्रापिताः, च पुनस्त्वया नरकाः सप्त न विध्वस्ता - न विनाशं प्रापिताः च पुनस्त्वया धर्मै:
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy