________________
११६
श्रीअध्यात्मकल्पद्रुमे दुरापतां-दुर्लभत्वं समीक्ष्य-विलोक्य विचार्य वा, यत् त्वं विषयैः-शब्द-रूप-गन्धरस-स्पर्शः करणैः प्रमोदसे-प्रमोदं प्राप्नोषि । किंलक्षणैः ? - सह कौतुकेननर्मणा मुदा कुतुकेन वा, वर्तन्ते ये ते तैः, यतः ...... [१८७] कोरकं तु ... .................. ।
"कौतुको((कं)) नर्मणीच्छायामुत्सवे कुतुके मुदि ।। अने.३.२७ ।। [१८८] पारंपर्यागतख्यात, मङ्गलोद्वाहसूत्रयोः ।
गीतादौ भोगकाले च- ...................... ।। अने.३.२८ उत्तरार्धम्।। 'इत्यनेकार्थकोष [ ] वचनात्, ततः-तस्मात् कारणात् तव चेतना-चैत्यन्यं विगतं फलं तत्त्वज्ञानरूपं यस्याः सा विफला, कथं ? - एव निश्चयेन |७.१९।। [१८९] चौरैस्तथा कर्मकरैर्गृहीते,
दुष्टैः स्वमात्रेऽप्युपतप्यसे त्वम् । पुष्टः प्रमादैस्तनुभिश्च पुण्य
धनं न किं वेत्स्यपि लुट्यमानम् ? |७.२०।। धनवि.-अथ कषायाणां साक्षात् प्रमादत्वं दर्शयन् प्रमादनिग्रहद्वारा कषायनिग्रहमुपदिशति -
'चौरे' इति, यदि दुष्टैः-क्रूरैश्चौरैः-तस्करैः, तथेति पक्षान्तरे दुष्टैःअविनीतत्वादिदोषदूषितैः कर्मकरैर-स्वगृहसत्कदास-दासीप्रभृतिभिः स्व-मात्रेऽपिसुवर्णादिद्रव्यमात्रेऽपि बलाच्छलाद् वा गृहीते-अपहृते त्वमुपतप्यसे-परितप्यसे, ___ अत्र स्वं-धनं गणिम १ धरिम २ मेय ३ परिच्छेद्य ४ भेदाच्चतुर्धा, यदुक्तम् - [१९०] "गणिमं जाईफलफोफलाइं १, धरिमं तु कुंकुमगुडाई २ |
मेयं चोप्पडलोणाई ३ रयणवत्थाइ परिच्छेज्जं ४ ।।[ ]||" इति