SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ कषायनिग्रहद्वारम् [१८३] राधाया वदनादधः क्रमवशाच्चक्राणि चत्वार्यपि, भ्राम्यन्तीह विपर्ययेण तदधो धन्वी स्थितोऽवाङ्मुखः । तस्या वामकनीनिकामिषुमुखेनैवाशु विध्यत्यहो, भ्रष्टो मत्र्त्यभवात् तथाऽप्यसुकृती भूयस्तमाप्नोति न । । ७. राधावेधः ।। ११५ [१८४] दृष्ट्वा कोऽपि हि कच्छपो ह्रदमुखे सेवालबन्धच्युते, पूर्णेन्दुं मुदितः कुटुम्बमिह तद् द्रष्टुं समानीतवान् । सेवाले मिलिते कदापि स पुनश्चन्द्रं समालोकते, भ्रष्टो मर्त्यभवात् तथाऽप्यसुकृती भूयस्तमाप्नोति न ॥८. कूर्मः ।। [१८५] शम्या पूर्वपयोनिधौ निपतिता, भ्रष्टं युगं पश्चिमाम्भोधौ दुर्द्धरवीचिभिश्च सुचिरात् संयोजितं तद् द्वयम् । सा शम्या प्रविशेद् युगस्य विवरे, तस्य स्वयं क्वापि चेद्, भ्रष्टो मत्त्र्त्यभवात् तथाऽप्यसुकृती भूयस्तमाप्नोति न ।।९.शमीयुगम्।। [१८६] चूर्णीकृत्य पराक्रमान्मणिमयस्तम्भं सुरः क्रीडया, मेरौ सन्नलिकासमीरवशतः क्षिप्त्वा रजो दिक्षु चेत् । स्तम्भं तैः परमाणुभिः सुमिलितैः कुर्यात् स चेत् पूर्ववद्, भ्रष्टो मत्त्र्त्यभवात् तथाऽप्यसुकृती भूयस्तमाप्नोति न ।। १०. परमाणु ।। इति संक्षेपतो, विस्तरतस्तूत्तराध्ययनवृत्त्यादिभ्योऽवसेया इति । ।७.१९ ।। रत्न.–अथाधीतावपि सत्यां विषयग्रस्तत्वात् चेतनावैफल्यं दर्शयति - समीक्ष्य..इति., व्याख्या- हे आत्मन् ! श्रुतान्येवेक्षणानि-लोचनानि, अथवा श्रुतानामीक्षणानि-विलोकनानि तैः करणैः, तिर्यग्-नारकादीनां वेदनाः प्रतिपीडाः प्रति समीक्ष्य-विलोक्य विचार्य वा, तथा तैरेव धर्मस्य प्रकरणादर्हदुक्तस्य १. ०ग्रस्ते मु० ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy