________________
११४
श्रीअध्यात्मकल्पद्रुमे इत्थं लब्धवरोऽथ तेष्वपि कदाऽप्यश्नत्यहो द्विः स चेद्भ्रष्टो मर्त्यभवात् तथाऽप्यसुकृती भूयस्तमाप्नोति न ||१.चुल्लगम्।। [१७८] स्तम्भानां हि सहस्रमष्टसहितं प्रत्येकमष्टोत्तरं,
कोणानां शतमेषु तानपि जयन् द्यूतेऽथ तत्सङ्ख्यया । साम्राज्यं जनकात् सुतः स लभते स्याच्चेदिदं दुर्घट,
भ्रष्टो मर्त्यभवात् तथाऽप्यसुकृती भूयस्तमाप्नोति न ||२.द्युतम् ।। [१७९] वृद्धा कापि पुरा समस्तभरतक्षेत्रस्य धान्यावलिं,
पिण्डीकृत्य च तत्र सर्षपकणान् क्षिप्त्वाऽऽढकेनोन्मितान् । प्रत्येकं च पृथक्करोति किल सा सर्वाणि चान्नानि चेद्,
भ्रष्टो मर्त्यभवात् तथाऽप्यसुकृती भूयस्तमाप्नोति न ।।३.धान्यम् ।। [१८०] सिद्धद्यूतकलाबलाद्-धनिजनं जित्वाऽथ हेम्नां भरैश् -
चाणाक्येन नृपस्य कोशनिवहः पूर्णीकृतो हेलया । दैवादाढ्यजनेन तेन स पुनर्जीयेत मंत्री क्वचिद्,
भ्रष्टो मर्त्यभवात् तथाऽप्यसुकृती भूयस्तमाप्नोति न ।।४.चाणक्यः।। [१८१] रत्नान्याढ्यसुतैर्वितीर्य वणिजां देशान्तरादीयुषां,
पश्चात्तापवशेन तानि पुनरादातुं कृतोपक्रमैः । लभ्यन्ते निखिलानि दुर्घटमिदं दैवाद् घटेत् तत् स्वचिद्,
भ्रष्टो मर्त्यभवात् तथाऽप्यसुकृती भूयस्तमाप्नोति न ।।५.रत्नम्।। [१८२] स्वप्ने कार्पटिकेन रात्रिविगमे श्रीमूलदेवेन च,
प्रेक्ष्येन्दुं सकलं कुनिर्णयवशादल्पं फलं प्राप्य च । स्वप्नस्तेन पुनस्स तत्र शयितेनालोक्यते कुत्रचिद्, भ्रष्टो मर्त्यभवात् तथाऽप्यसुकृती भूयस्तमाप्नोति न ।।६.स्वप्ने।।