________________
कषायनिग्रहद्वारम
११३
[१७६] समीक्ष्य तिर्यग्-नरकादिवेदनाः,
श्रुतेक्षणैर्धर्मदुरापतां तथा । प्रमोदसे यद्विषयैः सकौतुकैस्
ततस्तवात्मन् ! विफलैव चेतना |७.१९।। धनवि.-अथ कषायाणां विषयाणां च प्रमादत्वेन परस्परं साधाद् विषयकषाययोः परस्परं साहचर्याच्च कषायद्वारे विषयनिग्रहमुपदिशति -
'समीक्ष्य' इति, हे आत्मन् ! त्वं श्रुतेक्षणैः-शास्त्रलोचनैस्-तिर्यग्-नरकादिवेदनाः तथा च पुनरर्थे धर्मदुरापतां-धर्मस्य दुर्लभतां, समीक्ष्य-निरीक्ष्य, सकौतुकै:कुतूहलसहितैर्विषयैर्यद्-यस्मात्, त्वं प्रमोदसे-हृष्यसि, ततः कारणाद्, हे आत्मन ! तव चेतना-ज्ञानं विफलैव-निष्फलैव जातेत्यर्थः; ___ भावार्थस्तु तिर्यग्-नरकादिवेदनाः श्रुतेक्षणैः समीक्ष्येत्युक्तं तत्रादिपदात्-मनुष्यवेदनाः चारकनिरोधादिका द्रष्टव्याः, तिर्यग्वेदनास्तु - "तिरिया कसंकुसारइत्यादिकाः प्रसिद्धाः, नरकवेदनाश्च - "इमीसे णं भंते ! रयणपभाए पुढवीए णेरइया केरिसयं णिरयभवं पच्चणुब्भवमाणा विहरंति ?, गोयमा ! ते णं तत्थ णिच्चं भीया, णिच्चं छुहिया, णिच्चं तसिया, णिच्चं उब्बिग्गा, णिच्चं उपप्पुया" इत्यादिका जीवाभिगमतृतीयपदप्रतिपादिताः । सविस्तराः सव्याख्याः, तत एवावसेयाः,
किंच-धर्मदुरापतां समीक्ष्येत्युक्तं, सा च धर्मदुरापता दशदृष्टान्तैर्बोध्या, ते च दश दृष्टान्ताः - - - - [१७७] विप्रः प्रार्थितवान् प्रसन्नमनसः श्रीब्रह्मदत्तात् पुरा,
क्षेत्रेऽस्मिन् भरतेऽखिले प्रतिगृहं मे भोजनं दापय ।
१. 'उवदुया' मु० ।