________________
श्री अध्यात्मकल्पद्रुमे
9
रूपलाघवस्य 'दुःखं कुरूपप्राप्त्या लाभलाघवस्य लाभान्तरायेण, कुललाघवस्य श्वपचादिकुलप्राप्त्या, विक्रमलाघवस्य सर्वतो बलहीनत्वेन, विद्यालाघवस्य जडत्वेन, श्रीलाघवस्य दरिद्रत्वेन तपोलाघवस्य तपःकरणाशक्तत्वेन, वितरणलाघवस्य दानान्तरायेण, प्रभुतालाघवस्य सर्वेषां दासत्वेनाऽनादेयवचनतया त्वयैवानन्तशः प्राप्तमिति जानीहीति भावः ।।७.१७ ।।
११२
[ १७५] विना कषायान् न भवार्त्तिराशिर्भवेद् भवेदेव च तेषु सत्सु । मूलं हि संसारतरोः कषायास्
तत् तान् विहायैव सुखी भवात्मन् ! ।।७.१८ ।।
धनवि . - अथ सांसारिकपीडायाः कषायाणां च परस्परमन्वय-व्यतिरेकाभ्यां कार्य-कारणभावं दर्शयन् कषायनिग्रहमुपदिशति
-
·
'विना कषायान्' इति, कषायान्- क्रोधादीन् विना भवार्त्तिराशिः-संसारपीडासमूहो, न भवेत्, च पुनस्तेषु क्रोधादिषु सत्सु भवार्त्तिराशिः एव निश्चयेन भवेत् - स्यादित्यन्वय-व्यतिरेक इति । हि यतः कारणात्, संसारतरोः भववृक्षस्य, कषायाःक्रोधादयो मूलम्-आदिकारणं भवन्ति इत्यर्थः; तत्-तस्मात् कारणात्, तान् कषायान् विहाय-त्यक्त्वा, हे आत्मन् ! - जीव ! सुखी-सुखवान् भवेति सम्बन्धः ।।७.१८।।
रत्न. - अथ पुनः सिंहावलोकनन्यायेन कषायपरित्यागमेव दृढयति
विना कषायान..इति., व्याख्या-भवे- संसारे कषायान् विना भवस्य संसारस्य, अर्त्तिः- पीडा, तस्या राशिः समूहो न भवेदेव, यथाऽयं निश्चयः, तथा च पुनस्तेषु कषायेषु सत्स्वेव भवार्त्तिराशिर्भवेद् अयमपि निश्चयः, हि यस्मात् कारणात् कषायाः संसारतरोः - संसारवृक्षस्य मूलं वर्तन्ते, तत्-तस्माद्धेतोस्तान् विहायैव-त्यक्त्वैव हे आत्मन् ! त्वं सुखीभव- अक्षय्यसुखवान् भवेत्यर्थः । ।७.१८।।
१. 'दुःखं' सर्वत्र षष्ठ्यन्तपदात् योज्यम् ।