________________
१११
कषायनिग्रहद्वारम् [१७३] रूप-लाभ-कुल-विक्रम-विद्या
श्री-तपो-वितरण-प्रभुता-ऽऽद्यैः । किं मदं वहसि ? वेत्सि न,
मूढा-ऽनन्तशः स्वभृशलाघवदुःखम् ? |७.१७ ।। धनवि.-अथ कषायविशेषस्य केवलमदस्य निग्रहमुपदिशति -
'रूप' इति, रूपं च-शरीरसौन्दर्य, लाभश्च-व्यापारदिषु धन धान्याऽशुकादिप्राप्तिः, कुलं च-पित्रन्वयः, विक्रमश्च-बलं, विद्या च-तर्कविद्यादिका, श्रीश्च-लक्ष्मीः , तपश्च द्वादशप्रकारं, वितरणं च-दानं, प्रभुता च-ऐश्वर्यम्, एते पदार्था आद्या येषां ते तथा, आद्यपदाज्जाति-रमणी-मन्दिरादिग्रहणं तै रूपलाभ-कुल-विक्रम-विद्या-श्री-तपो-वितरण-प्रभुता-ऽऽद्यैः, मदम्-अभिमानं किं वहसिधरसि ?, परं तैरेव रूपादिमदैः अनन्तश:-अनन्तवारान् स्वस्य भृशम्-अत्यर्थं लाघवदुःखं-लघुतादुःखं भावि भूतं वा न वेत्सि ? - न जानासि, उक्तं च[१७४] "जाति-लाभ-कुलैश्वर्य-बल-रूप-तपः-श्रुतैः ।
कुर्वन् मदं पुनस्तानि, हीनानि लभते जनः ।।[ ]||' इति ।।७.१७ ।। रत्न.-अथ विषय-कषाया-ऽऽद्यवश इत्यत्रादिशब्दसगृहीतमदविषये किञ्चिदुपदिशति -
रूप-लाभ इति., व्याख्या-हे आत्मन् ! त्वं मदम्-अहङ्कारं किं वहसि ? - काकुध्वन्या व्याख्येयं, अपि तु मा वह इति सूचापि, कैः? - रूपं च लाभश्च कुलं च विक्रमश्च विद्या च श्रीश्च तपश्च वितरणं च प्रभुता च-रूप... प्रभुताः, ता आद्या येषां [ते] तैः, विक्रमो-बलं, श्रीः-लक्ष्मीः, वितरणं-दानं, प्रभुता-ऐश्वर्यं, शेषपदानामर्थः प्रतीतः, आद्यशब्देन ललितललना-हये-जात्यादिग्रहः, परं हे मूढ ! - हे मूर्ख ! त्वमनन्तशः-अनन्तवारान् स्वस्य भृशम्-अत्यर्थं यल्लाघवं तस्य दुःखं किं न वेत्सि ?, काकूक्त्या प्रश्नगर्भं व्याख्यानं, अपि तु विधि,