________________
११०
श्रीअध्यात्मकल्पद्रुमे अपि तु मा हारयेत्यर्थः । धर्मस्य सुवर्णोपमानं कषायाणां वातोपमानमिति, "धम्युं सोनुं फूकई गम्यु" इति लौकिकाभाणको ज्ञेयः |७.१५ ।। [१७२] शत्रूभवन्ति सुहृदः कलुषीभवन्ति,
धर्मा यशांसि निचिताऽयशसीभवन्ति । स्निह्यन्ति नैव पितरोऽपि न बान्धवाश्च,
लोकद्वयेऽपि विपदो भविनां कषायैः ।।७.१६ ।। धनवि.-अथ भवद्वयेऽपि दुःखदायकत्वं दर्शयति - 'शत्रूभवन्ति' इति, शत्रूभवन्तीति, कषायैः-क्रोधादिभिः सुहृदो मित्राणि, शत्रूभवन्ति अशत्रवः शत्रवो भवन्ति इति शत्रूभवन्ति-वैरिणो भवन्ति, च पुनः कषायैः धर्माःश्रुत-चारित्रलक्षणा दानादयो वा कलुषीभवन्ति-मलिनीभवन्तीत्यर्थः, च पुनः कषायैः यशांसि निचितायशसीभवन्ति-अनिचितायशांसि (निचितायशांसि) भवन्ति इति निचितायशसीभवन्ति, अतिशयेनाकीर्तयो भवन्तीत्यर्थः । च पुनः कषायैः पितरोऽपि बान्धवाश्च-भ्रातरः स्वजना वा नैव स्निह्यन्ति-स्नेहवन्तो भवन्ति, एवम्-उक्तप्रकारेण भविनां संसारिजीवानां कषायैः लोकद्वयेऽपि-इहलोक-परलोकलक्षणे विपदो-विपत्तयो भवन्ति, अत्रैवमित्याध्याहार्यम् ।।७.१६ ।।
रत्न.-अथ कषायैः किं किमशुभं भवतीत्याह -
शत्रूभवन्ति-इति., व्याख्या-कषायैः करणैः, सुहृदो-मित्राणि अशत्रवः शत्रवो भवन्ति शत्रूभवन्ति, कषायैरिति सर्वत्र योज्यं, धर्माः-पुण्यानि तपोदानादिसमुत्थाः कलुषीभवन्ति-मलिनीभवन्तीत्यर्थः, तथा यशांसि-कीर्तयः, निचितानि च तानि अयशांसि च निचितायशांसि, अनिचितायशांसि निचितायशांसि भवन्तीति निचितायशसीभवन्ति, निचयीकृतापयशसीभवन्तीत्यर्थः, तथा पितरो मातृ-पित्रादयः, कुलवृद्धा अपि, न स्निह्यन्ति-न स्नेह-प्रेम कुर्वन्ति, न बन्धवः-अन्ये स्वजना अपि, च पुनर्लोकद्वयेऽपि-इहलोके परलोकेऽपि विपदो-विपत्तयो भवन्ति, केषा? - भविनां संसारिणामिति सर्वत्र योज्यम् ।।७.१६ ।।
१. माता-पितादया मु० । २. 'न बन्धवश्च' इति मूलत्वेनापि पाठः ।