SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ १०९ कषायनिग्रहद्वारम् अन्योऽपि सर्वाङ्गेषु निगडादिना नियन्त्र्य घोरजलेऽन्धकूपे निपातितः सन् कदाऽपि बहिर्निर्गन्तुं न शक्नोति, तथैव क्रियसे इत्यर्थः ।।७.१४ ।। [१७१] कष्टेन धर्मो लवशो मिलत्ययं क्षयं कषायैर्युगपत् प्रयाति च | अतिप्रयत्नार्जितमर्जुनं ततः, किमज्ञ ! ही हारयसे नभस्वता ? ||७.१५।। धनवि.-अथ कषाये कृते सुकृताचरणं यातीत्याह - 'कष्टेन' इति, अयं श्रुतचारित्रलक्षणो धर्मो दानादिजो वा धर्मः-पुण्यं, लवशोलवैर्लवैः कृत्वा, कष्टेन-बहुदुःखसहनेन, मिलति-सञ्चयविषयीभवतीति, च पुनरयं कष्टेन मिलितो धर्मः कषायैः-क्रोधादिभिर्मद-मत्सराद्यैर्वा युगपत्-समकालं क्षयंविनाशं प्रयाति, ततः तद् दार्टान्तिकयोजनतो - हे अज्ञ ! - मूर्ख ! हीति खेदे अतिप्रयत्नार्जितम्-अग्निफूत्करण-धूमपान-लोकवञ्चनप्रमुखातिप्रयत्नेनबहुप्रयासेन, अर्जितं-मीलितं, अर्जुन-सुवर्णं नभस्वता-फूत्कारवातेन प्रबलवातेन वा किं हारयस ? - नाशयसि; अत्रोत्तरार्द्धन- 'ध्मातं सुवर्णं फूत्कारेण हारितम्'इत्याभाणको दर्शितो भवति; किंच-अत्र कष्टस्यातिप्रयत्नो धर्मस्य सुवर्णं, लवस्य सुवर्णलवा एवं मेलनस्यार्जनं, क्षयस्य हारणं, कषायस्य नभस्वान्, दृष्टान्ता इति दृष्टान्तदाान्तिकयोजनेति भावः ।।७.१५ ।। रत्न.-अथात्मानं कष्टार्जितधर्मरक्षणविषये उपदिशति - कष्टेन धर्मो लवशो मिलत्ययम्-इति., व्याख्या-हे आत्मन् ! अयं धर्मः कष्टेन मिलति समूहीभवतीत्यर्थः कथं लवशः-कणशः, बहुभिर्लवैर्लवशः, च पुनः कषायैर्हेतुभिर्युगपत्-समकालं क्षयं-नाशं प्रयाति, एतद् दृष्टान्ते विषयीकृत्योपदिशति-हे अज्ञ ! - हे मूर्ख ! ततः-तर्हि अतिप्रयत्नेन-अत्युद्यमेनार्जितं सुवर्णं नभस्वता-वातेनार्थान्मुखवातेन प्रयोजकेन, हीति खेदे किं हारयसे ?, १. कहेती, कहेवत - सं.।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy