________________
श्रीअध्यात्मकल्पद्रुमे मुक्तस्य हि निश्चितं यत् सुखं वर्त्तते, तद् गता उपमा यस्य तद् गतोपमं वर्त्तते, च पुनरायतौ-उत्तरकाले मुक्तिं-सिद्धिं ददातीति मुक्तिदं वर्त्तते, पूर्वसुखवदायतौ दुःखस्वरूपं नास्तीत्यर्थः, अथवा तस्य सुखस्य गौं-लौल्यं, तेन मुक्तस्येति व्याख्येयं, विषयैः प्रमादैरिति वा पाठः ।।६.९।।
[१५२] श्रीशान्तिचन्द्रवरवाचकदुग्धसिन्धु
लब्धप्रतिष्ठवरवाचकरत्नचन्द्रः | अध्यात्म-कल्पफलदस्य चकार वृत्तिं, षष्ठोधिकार इति तत्र गतः सदर्थः ||६|| इति विषयावशतोपदेशाख्यः षष्ठोऽधिकारः ।।