SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ७. कषायनिग्रहाधिकार: [१५२] रे जीव ! सेहिथ सहिष्यसि च व्यथास्तास् त्वं नारकादिषु पराभवभूः कषायैः । मुग्धोदितैः कुवचनादिभिरप्यतः किं, क्रोधान्निहंसि निजपुण्यधनं दुरापम् ? |७.१।। धनवि.-अनन्तरद्वारे विषयनिग्रहणमुक्तं, तच्च कषायनिग्रहे एव भवतीति कषाय-निग्रहद्वारमभिधित्सुराह - अथ कषायाः - अथ कषाया इति, अथ कषाया निग्रहविषयीकार्याः प्रतिपाद्यन्ते इत्यर्थः । ते च कषाया मूलतः क्रोध-मान-माया-लोभाख्याश्चत्वारो भवन्ति, ते च प्रत्येकं संज्वलना-ऽप्रत्याख्यानावरणा-प्रत्याख्याना-ऽनन्तानुबन्धिभेदात् षोडश भवन्ति, ते च हास्य-रत्य-ऽरति-भय-शोक-जुगुप्सा-स्त्रीवेद-पुरुषवेदनपुंसकवेदाख्यनव-नोकषायसहिताः पञ्चविंशतिसङ्ख्या भवन्ति । तत्र कषायेषु मुख्यः स्वपरोपघातकत्वाच्च दुष्टः क्रोधो भवतीति पूर्वं क्रोधनिग्रहमुपदिशति_ 'रे जीव !' इति-रे-तिरस्कारेण संबोधने, रे जीव ! - रे प्राणिन्, त्वं कषायै-कषायसेवनैर्हेतुभूतैर्नारकादिभवेषु पराभवभू-पराभवस्थानं सन् ताः प्रज्ञापनाजीवाभिगमादिशास्त्रप्रसिद्धा व्यथा-दशविधा वेदनाः पूर्वभवे सेहिथ-सहनविषयीकृतवानित्यर्थः, च पुनरग्रेतनभवे कषायैस्त्वं ता व्यथाः सहिष्यसि;, अतः कारणात् मुग्धोदितै-निर्विवेकिजनप्रतिपादितैः कुवचनादिभिः; 'एकार-तुङ्कारप्रभृतिगालिवाक्यैरपि क्रोधात्-प्रथमकषायोदयाद् दुरापं-दुर्लभं निजपुण्यधनं-स्वकीयसुकृतलक्षणं धनं, किं-किमर्थं निहंसि-विनाशयसीत्यर्थः ? |७.१।। रत्न.-अथ कषाया-ऽऽद्यवशतोपदेशविषये सप्तमोऽधिकारः किञ्चिद् विव्रियत । तत्र प्रथमं कषायाणां फलमाह - रे जीव ! सेहिथ...इति., व्याख्या-रे इति सम्बोधने, रे जीव ! त्वं कषायैः कारणैर्नारकादिषु आदिशब्दात् तिर्यग्-मनुष्येष्वपि, ता वक्तुमशक्या इत्यर्थः,
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy