SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ विषयनिग्रहद्वारम् 'विमोह्यसे' इति-हे आत्मन् ! आयतिदुःखानां यो राशिः तत्स्वरूपस्य सुखस्य भ्रमाद्-दुःखत्ववति सुखत्वप्रकारकज्ञानाद् विषयप्रमादैः कर्तृभिः, त्वं किं विमोह्यस ? - विशेषेण मोहविषयीक्रियसे ?, भावार्थस्त्वायतिदुःखराशिस्वरूपस्य विषयप्रमाद-सेवनजनितसुखस्य सुखतया ज्ञानं भ्रमः, 'अतद्वति तत्प्रकारकं ज्ञानं भ्रम-इति [ ] वचनात्; अत्र भ्रमता च - [१५०] 'जह कच्छुल्लो कच्छं कंडुअमाणो दुहं मुणइ सुक्खं । मोहाउरा मणुस्सा तह कामदुहं सुहं बिंति' ।। || इत्याधुपदेशमाला[ ]गाथया भावनीयेति, हि यतः कारणात् तद्गर्धमुक्तस्यविषयप्रमादसुखाभिलाषरहितस्य, यत् सुखं भवति तत् सुखं गतोपमं-निरुपम, चः पुनर् आयतिमुक्तिदम्-उत्तरकाले मोक्षसुखदायकं भवतीति । अत्र निरुपमता [१५१] 'नैवास्ति राजराजस्य तत् सुखं नैव देवराजस्य । यत् सुखमिहैब साधोर्लोकव्यापाररहितस्य ।।' इत्यादिप्रशमरतिप्रकरणादि [ ] भावना भावनीयेति ।।६.९।। इति तपागच्छनायकश्रीमुनिसुन्दरसूरिनिर्मितस्य तत्पट्टपरंपराप्रभावक० महोपाध्यायश्रीकल्याणविजयगणिशिष्योपाध्याय श्रीधनविजयगणिविनिर्मितायां षोडशशाखस्याध्यात्मकल्पद्रुम-स्याधिरोहिणीटीकायां विषयनिग्रहनाम्नी षष्ठी पदपद्धतिः ।।६।। रत्न.-अथ सुखस्यायतौ दुःखत्वेन निरूपयन् जीवं प्रतिबोधयितुमाह - विमोह्यसे किम् इति, व्याख्या-हे आत्मन् ! सुखस्य भ्रमाद्-भ्रान्तेः, विषयाश्च प्रमादाश्च विषय-प्रमादास्तैस्त्वं किं विमोह्यसे ? - विमोहं प्राप्यसे इति ?, काक्वाख्यानं, यतः किंलक्षणस्य ? - आयतौ-उत्तरकाले दुःखानां राशिस्तस्य 'अतद्वति तत्प्रकारकं ज्ञानं भ्रमः' [ ], तेन वैषयिकं सुखं सर्वमपि दुःखं वर्त्तते, तत्र सुखज्ञानं भ्रमः, तस्मादिति, तत्-तस्मात् कारणात् गर्द्धन-तृष्णया
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy