________________
९२
श्रीअध्यात्मकल्पद्रुमे [१४५] पारम्पर्यागतख्यात-मङ्गलोद्वाहसूत्रयोः ।
गीतादौ भोगकाले च.......... || ३.२८ ।। इत्यनेकार्थवचनात् इच्छायां मुदि च कौतुकशब्दोऽत्र व्याख्यातः, ।
तत् किमु ? - किं प्रेतपतिः-यमो मृतः ?, अजरामृतत्वात् तस्य, तं मृतं मा चिन्तयेत्यर्थः । तथा दुः-दृष्टा आमया रोगाः किं क्षयं गताः ?, शरीरिणः प्रत्यनेकरोगाणां कोटिसद्भावात् । यत उक्तम् - [१४६] रोगाणां कोडीओ हवंति पञ्चेव लक्ख अडसटठी ।
नवनवइ सहस्साइं छच्च सया चेव पणयाला ।।[ ]|| [१४७] खासे १ सासे २ जरे ३ दाहे ४ कुच्छिसूले ५ भगंदरे ६ ।
___ अरसा ७ अजीरए ८ दीही ९, मुहसूले १० अरोयए ११ ।।[ ]|| [१४८] अच्छिवेयण १२ कंडू य १३, कण्णबाधा १४ जलोयरे १५ ।
कुढे १६ एमाइया रोगा, पीलयन्ति सरीरिणं ।।[ ]|| इतितेषामपि क्षयं मा विचिन्तयेति । च पुनर्नरकाः सप्तसङ्ख्याकाः किं मुद्रिता ? दत्तद्वारकाः कृताः ?, तेषामपि मुद्रितुमशक्यत्वात्, तानुद्घाटितानेव चिन्तयेति, तथा आयु-र्धन-देह-बन्धवो ध्रुवा-नित्याः सन्ति ?, तेऽपि कदाचन नित्या न भवन्तीत्यर्थः ।।६.८ ।।
[१४९] विमोह्यसे किं विषयप्रमादैर्
भ्रमात् सुखस्यायतिदुःखराशेः ? | तद्गर्धमुक्तस्य हि यत् सुखं तद्,
गतोपमं चायतिमुक्तिदं च ||६.९।। धनवि.-अथ विषयनिग्रहोपदेशमुपसंहरन् विषयसुखस्यायतिदुःखकारणत्वमुपदिशति - १. दिट्ठी मु० | २. द्वाराः मु० । ३. कदाचिन्नि - मु० । ४. वा. मु० ।
मुपदिशात