________________
विषयनिग्रहद्वारम्
. ९१ बिभेषि जन्तो इति., व्याख्या-हे जन्तो ! - हे प्राणिन् ! यदि त्वं दुःखराशेर्बिभेषि-भयमाप्नोषि, तत्-तर्हि, इन्द्रियार्थेषु-विषयेषु शब्दादिषु, रतिं-रागं मा कृथाः-मा कार्षीः, तेभ्यः इन्द्रियार्थेभ्य उद्भवम्-उत्पन्नं शर्म-सुखं यद्यस्मात् कारणात्, द्राक्-शीघ्रं नश्यति, च पुनस्तस्य शर्मणो नाशे जाते सति, ध्रुवं-चिरस्थायि दुःखमेव वर्त्तते, यथा आलोकनाशेऽन्धकारं ध्रुवमेवेति, यथा आलोका-ऽन्धकारयोः प्रतिपक्षता तथा सुख-दुःखयोरपीति भावः ||६.७।।
[१४३] मृतः किमु ? प्रेतपतिर्दुरामया,
गताः क्षयं किं ?, नरकाश्च मुद्रिताः ? | ध्रुवाः किमायुर्धन-देह-बन्धवः ?,
सकौतुको यद् विषयैर्विमुह्यसि ||६.८।। धनवि.-अथ ध्रुवभाविदुःखकारणान्युपदिशति - ____ 'मृतः' इति-किमु इति काकूक्तिप्रश्ने प्रेतपतिः-यमो मृतो-मरणं प्राप्तोऽस्ति ?, च पुनर्, दुरामयाः-दुष्टरोगाः, किं काकूक्तिप्रश्ने क्षयं-विनाशं गताः ?, च पुनर्नरकाः सप्तापि, किं प्रश्ने मुद्रिता-राजमुद्रया पिहिताः ?, अत्र किंशब्दो देहलीप्रदीपन्यायेन डमरुकमणिन्यायेन वोभयत्रापि योज्यः, च पुनर आयुर्धन-देह-बन्धवो जीवित-द्रव्य-शरीर-स्वजनाः, किं प्रश्ने, ध्रुवार-शाश्वताः ?, यद्यस्मात् कारणात् सकौतुक:-अदृष्टकल्याण इव साश्चर्यो, विषय-इन्द्रियार्थैर्विमुह्यसिविशेषेण मोहं यासीति ||६.८।।।
रत्न.-अथ प्रकारान्तरेण जीवस्य सुख प्रतिबन्धकान् निर्दिशति-मृतः किमु प्रेत. पतिः इति, व्याख्या-हे आत्मन् ! यत्, त्वं विषयैः सकौतुको विमुह्यसि विमोहं प्राप्नोषि, यतः - ... [१४४] कोरकं तु .. ...................
'कौतुकं नर्मणीच्छायामुत्सवे कुतुके मुदि ।। ३.२७ ।।