SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्रीअध्यात्मकल्पद्रुमे अजस्य वधस्य-हिंसायाः पदं-स्थानं संप्राप्यमाणस्य-नीयमानस्य शनैः शनैः-मन्दं मन्दं मृतिः-मरणं समीपम्-आसन्नम्, एति-आगच्छति तथा-तद्वद् अखिलस्यसकललोकस्य मृतिः समीपमेतीति हेतोः कथं ? - केन प्रकारेण प्रमादोविषयसेवाभिलाषलक्षणस्तवास्तीति ।।६.६।। .... रत्न.-अथ मृत्योर्भयदर्शनेन प्रमादपरित्यागे प्रतिबोधयन्नाह - वध्यस्य चौरस्य इति, व्याख्या-यथेति दृष्टान्तोपन्यासे, वध्यस्य-वधार्हस्य चौरस्य वा-अथवा पशो:-तिरश्चोऽजस्य वा शनैः शनैर्मृतिः-मरणं समीपमेतिआगच्छति । किं क्रियमाणस्य ? - सम्प्राप्यमाणस्य, किं प्रति ? - पदं (वधस्य), स्थानं प्रति, तथेति दृष्टान्तोपनये, अखिलस्य देहिनो मृतिः शनैः शनैः समीपमेति । यो वर्ष-मास-पक्ष-दिन-प्रहर-मुहूर्त-घटिकादिकः कालो याति, सा आयुषस्त्रुटिरेव भवतीत्यर्थः । इतिहेतोः, हे आत्मन ! त्वया प्रमादो-मद्यादिकः पञ्चधा कथं क्रियत?, अपि तु न कार्य एवेति ।।६.६ ।। [१४२] बिभेषि जन्तो ! यदि दुःखराशेस्, . तदिन्द्रियार्थेषु रतिं कृथा मा | तदुद्भवं नश्यति शर्म यद् द्राग्, नाशे च तस्य ध्रुवमेव दुःखम् ||६.७ ।। धनवि.-अथ सुखसिषाधयिषया सेवितेषु विषयेषु दुःखकारणत्वं दर्शयन्नुपदिशति 'बिभेषि' इति-हे जन्तो ! हे प्राणिन् ! यदि-चेत्, त्वं दुःखराशेः-दुःखसमूहाद् बिभेषि-भयमाप्नोषि, तत्-तदा इन्द्रियार्थेषु-विषयेषु रतिम्-आसक्तिं मा कृथा-मा कार्षीः, यद्-यस्मात् कारणात् तदुद्भवं-विषयरतिसंभवं शर्म-सुखं द्राक्-शीघ्र नश्यति-क्षणादसद्भवतीत्यर्थः, च पुनस् तस्य-विषयासक्तिसमुत्पन्नसुखस्य नाशेक्षये ध्रुवं-निश्चितं विषयसेवनजनितदुष्कृत्यजन्यं दुःखमेवेह परत्र भवतीति ।।६.७ ।। रत्न.-अथ सुखस्य द्राग् नाशेन जीवं प्रतिबोधयन्नाह - १. नाशस्योपदेशेन जी० - मु० ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy