________________
विषयनिग्रहद्वारम्
[१४०] गब्भाओ नीहरंतस्स, जोणिजंतनिपीलणे ।
सयसाहस्सिों दुक्खं, कोडाकोडिगुणं पि वा ।।[ ]|| इति नरकवेदनाश्च दशविधाः पूर्वोक्ताः, तिर्यगादिवेदनाश्च "तिरिया कसंकुसारा इत्यादिनाऽनन्तरोक्ताः ज्ञेया इति; नन्वत्र विषयाधिकारे कषायग्रहणं किमर्थमिति चेत् ?, न, कषायाणामपि विषयाणामिव प्रमादत्वसूचनार्थं विषय-कषाययोः समानफलत्वदर्शनार्थं वा ग्रहणादिति; हे बुध ! - हे पण्डित ! इति कारणात, ता गर्भवास-नरकादिवेदनाः, त्वं चेतसि विचिन्तय-सम्यक्परिभावनेन स्मरणविषयीकुर्वित्यर्थः ।।६.५।।
रत्न:-पुनरपि विशेषदर्शनमेव दृढयति -
'गर्भवासनरकादिवेदना' इति., व्याख्या-हे आत्मन् ! श्रुतानि-शास्त्राण्येवेक्षणानिलोचनानि अथवा श्रुतानामीक्षणानि-विलोकनानि तैर्गर्भवास-नरकादिवेदनाः प्रति पश्यतः, तव कषाया:-क्रोध-मान-माया-लोभाश्चत्वारो, विषयाः-शब्दादयः पञ्च च, तेषु मानसं-मनो न श्लिष्यते-न श्लेषं प्राप्नोति, न लगतीत्यर्थः, ताश्च श्रुतेक्षणैरेव दृश्याः , न चर्मचक्षुषा, तेन श्रुतेक्षणैरिति । हे बुध ! - हे विद्वन! ततस्ता गर्भवास-नरकादिवेदनाः प्रति विचिन्तय-विचारय, आदिशब्देनातीव पापप्रचयवन्मनुष्य-तिर्यक्-संमूर्छनजमनुज-तिर्यग्वेदनानामपि ग्रहणम् ।।६.५।। [१४१] वध्यस्य चौरस्य यथा पशोर्वा,
संप्राप्यमाणस्य पदं वधस्य । शनैः शनैरेति मृतिः समीपं,
तथाऽखिलस्येति कथं प्रमादः ? ||६.६ ।। धनवि.-अथ मरणभयं दर्शयन् प्रमादपरिहारमुपदिशति - 'वध्यस्य' इति-यथा-यद्वद् वध्यस्य-वधयोग्यस्य, चौरस्य वाऽथवा पशो:
१. जंतम्मि पीलणा मु० । २. त्वं चिन्तय - मु० ।