________________
५८ ४-पूजाविधि-पञ्चाशकम्
गाथा-४५-४८ __ये तु पृथिव्यप्तेजोवायुवनस्पत्यारम्भसामर्थ्यात् पूजायां सत्यपि शास्त्रोक्तत्वे न प्रवर्तन्ते, तान् प्रत्याह -
देहादिनिमित्तं पि हु, जे कायवहम्मि तह पयद॒ति ।। जिणपूयाकायवहम्मि, तेसिमपवत्तणं मोहो ॥१८९॥ ४/४५
देहादिनिमित्तमपि शरीरगृहपुत्रकलत्राद्यर्थमपि ये गृहिणः सन्तः जीव कायवधे जीवनिकायारम्भे तथा तैस्तैरूपायैर्भोजना-ऽऽच्छादन-स्नान-विलेपनादिभिः प्रवर्तन्ते प्रवृत्ति विदधति । जिनपूजाकायवध वनस्पत्याद्यारम्भे, तेषामप्रवर्तनं स्वयमन्येषां च मोहोऽज्ञानमनाभोगो वर्तते, शास्त्रोक्तायामपि पूजायामधिकारिणामप्रवृत्तत्वात् ॥४५॥
एवं सावधपरिहारां पूजा[विधि]मभिधाय तन्निगमनायाह - सुत्तभणिएण विहिणा, गिहिणा निव्वाणमिच्छमाणेणं । तम्हा जिणाण पूया, कायव्वा अप्पमत्तेणं ॥१९०॥ ४/४६
सूत्रभणितेनागमोक्तेन विधिना विधानेनोपदेशेनेति यावत् । गृहिणा गृहस्थेन निर्वाणं परमपदं सुखं वा इच्छताभिकाङ्क्षता तस्माज्जिनानां पूजाप्रमत्तेन शास्त्रानुसारेण कर्तव्या। यत उक्तम् -
जम्हा छउमत्थाणं, मोत्तूणं आगमं इह पमाणं। नो विज्जई उअन्नं, तम्हा एत्थेव जइयव्वं [विचारसारप्रकरणम् गाथा-८८२] ॥४६॥ पूजाया एव विषयभेदात्फलविशेषमाह - एक्कं पि उदगबिंदूं, जह पक्खित्तं महासमुद्दम्मि । जायइ अक्खयमेवं, पूया जिणगुणसमुद्देसु ॥१९१॥ ४/४७
एकोऽपि उदकबिन्दुः सलिललवः । प्राकृतत्वाद् भाषायां नपुंसकनिर्देशः । यथा प्रक्षिप्ते महासमुद्रेऽसङ्ख्यातोदके स्वयम्भूरमणादौ जायतेऽक्षयोऽक्षीणः, एवं पूजा जिनगुणसमुद्रेषु न्यस्ता अक्षया जायते । विषयमाहात्म्यादक्षयाऽनन्तफला ॥४७॥
इदानीं पूजाया एवोपादेयताख्यापनार्थं प्रत्यासन्नविप्रकर्षगतं फलमुपदिशन्निदमाह - उत्तमगुणबहुमाणो, पयमुत्तमसत्तमज्झयारम्मि । उत्तमधम्मपसिद्धी, पूयाए जिणवरिदाणं ॥१९२॥ ४/४८