________________
गाथा-४२-४४
४-पूजाविधि-पञ्चाशकम् अत्रोत्तरमाह - भण्णइ जिणपूयाए, कायवहो जइवि होइ उ कहिंचि । तह वि तई परिसुद्धा, गिहीण कूवाहरणजोगा ॥१८६॥ ४/४२
भण्यते परिहार उच्यते, जिनपूजया व्यावर्णितया कायवधः प्रागुक्तो यद्यपि भवति तु भवत्येव कथञ्चित्तत्रापि[ तई ]तका (सा. अटी.) पूजा परिशुद्धा, न दोषवती गृहिणामधिकारित्वेन। कूपोदाहरणयोगात कूपखननोदाहरणव्यापारात्। यथा स कूपखननव्यापारो न दोषवानधिकफलश्च । एकदा निर्वर्तितस्य बहुकालोपकारित्वेन भूयसां सत्त्वानाम्, तथैषाऽपि पूजेति भावः ॥४२॥
असदारंभपवत्ता, जं च गिही तेण तेसि विनेया । तन्निव्वित्तिफल च्चिय, एसा परिभावणीयमिदं ॥१८७॥ ४/४३
असदारम्भप्रवृत्ताशोभनगृहाद्यारम्भप्रवृत्ता यद् यस्माद् गृहिणो वर्तन्ते, तेन हेतुना तेषां गृहिणां विज्ञेया ज्ञातव्या । तन्निवृत्तिफलैव प्रयत्नपूर्वकाधिकारम्भनिवृत्तिफलैव एषा पूजा । परिभावनीयमिद विशेषकारणसदारम्भेष्वेवं पूजाया[यां] गृहस्थजनो मित्रपुत्रादिनिमित्तं हि प्रवर्तमानोऽप्रयत्नेनाऽपि प्रवर्तते असदारम्भेषु पूजायां तु प्रवर्तमानो देशकालज्ञतया शास्त्रोक्तत्वेन धर्मपरतया तथाविधेष्वसदारम्भेषु[न] प्रवर्तत इत्यसदारम्भनिवृत्तिफला ॥४३॥
पूजायां कायवध इति [४.४१ गाथायां] यदुक्तं तत्परिहृतम्, नैव सा पूज्यानामुपकारिणीत्यस्य परिहारायाह -
उवगाराभावम्मि वि, पुज्जाणं पूजगस्स उवगारो । मंतादिसरणजलणादिसेवणे जह तहेहं पि ॥१८८॥ ४/४४
उपकाराभावेऽप्यालादादिविशेषाभावेऽपि पूज्यानां मुख्यवृत्त्या जिनानां तत्प्रतिमानां च, क्षीणमोहत्वादचेतनत्वाच्च । पूजकस्य पूजाप्रवृत्तभव्यसत्त्वस्य उपकारः-पूजाफललाभः, स्वगतो भवत्येवाशयविशेषाच्छास्त्रोक्तानुष्ठानाच्च । मन्त्रादिस्मरण-ज्वलनादिसेवने यथा तथेहापियथा मन्त्रविद्यादीनां स्मर्यमाणानां ज्वलनादीनां सेव्यमानानां [च] स्वगतोपकाराभावेऽपि स्मर्तुः सेवकस्य चोपकारः सम्पद्यते तथेहापि पूजकस्येति ॥४४॥