________________
गाथा-४९-५०
४- पूजाविधि-पञ्चाशकम्
५९
उत्तमगुणबहुमान उत्तमेषु गुणेषु केवलज्ञान-दर्शन-यथाख्यातचारित्रादिषु बहुमानः प्रीतिविशेषः । पदमुत्तमसत्त्वमध्यकारे देवेन्द्र-नरेन्द्र-विद्याधर- पार्थिवादिमध्यस्थ इत्यर्थः । उत्तमधर्मप्रसिद्धिः स्वर्गापवर्गनिर्वर्तनक्षमधर्मप्रसिद्धिः क्षान्त्याद्याशयविशेषरूपदशविधधर्मप्रसिद्धिर्वा पूजया जिनवरेन्द्राणां भवति ॥४८॥
इहैव निदर्शनमाह -
सुव्वइ दुग्गयनारी, जगगुरुणो सिंदुवारकुसुमेहिं । पूयापणिहाणेणं, उववन्ना तियसलोगम्मि ॥ १९३॥
४/४९
श्रूयते दुर्गतनारी दरिद्रस्त्री तथाविधसुरभिगन्धिपुष्पाद्यभावेन निर्विभवा जगद्गुरा-र्भगवतः सिन्दुवारकुसुमैर्नदीतीरासन्नसम्भवैः पूजाप्रणिधानेन पूजागताध्यवसायेन कथञ्चिदायुःक्षयादन्यद्वेलायां उपपन्ना त्रिदशलोके देवलोके । सा हि दुर्गतस्त्री समस्तसुरासुर - पार्थिवकृतपूजं भगवन्तं समवसृतं दृष्ट्वा भक्तिभरनिर्भरमानसा स्वकृतापराधमनुचिन्तयन्ती नूनं मयाऽन्यजन्मन्यपि महात्मनां केषाञ्चित् पूजा न कृतेति तत्फलमिदं दौर्गत्यम्, अतोऽधुना भगवत्पूजासम्पादनेन तदपनयामीत्यध्यवसायवती यथाप्रत्यासन्नलब्धसिन्दुवारकुसुमा[ नि] तत्परिपूर्णाञ्जलिः प्रमोदातिशयात् समवसरणं प्रति प्रस्थिता । तस्याश्च तस्यां वेलायां शुभप्रणिधानविशेषाद् देवेष्वायुर्बन्धो बभूव । तदनन्तरं प्रवर्धमानशुभपरिणामा तथा विरचितप्रशस्तकुसुमाञ्जलिरेव भगवन्तं भावतः पूजयित्वा द्रव्यतस्तामसम्पाद्यैवायुः क्षयाद्देवलोके समजनिष्टः । तदेवं भावतः पूजायाः फलं श्रूयते । तस्मात्कर्तव्येयमिति ॥४९॥
सम्मं नाऊण इमं, सुयाणुसारेण धीरपुरिसेहिं ।
एवं चिय कायव्वं, अविरहियं सिद्धिकामेहिं ॥१९४॥
४/५० सम्यग्ज्ञात्वेदं पूजाविधानं श्रुतानुसारेणागमनीत्या धीरपुरुषैर्विद्वत्पुरुषैः एवमेव कर्तव्यम्, यथागममेवेत्यर्थः । अविरहितं निरन्तरं सिद्धिकामैः मोक्षाभिलाषिभिरिति ॥५०॥
॥ पूजाविधि पञ्चाशकं चतुर्थं समाप्तम् ॥