SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ॥ पञ्चमं प्रत्याख्यानविधि-पञ्चाशकम् ॥ जिनगुरुपूजानन्तरं क्रमप्राप्तं प्रत्याख्यानविधिमाह - नमिऊण वद्धमाणं, समासओ सुत्तजुत्तिओ वोच्छं । पच्चक्खाणस्स विहि, मंदमतिविबोहणट्ठाए ॥१९५॥ ५/१ नत्वा वर्धमानं प्रकृष्टपुण्योदयप्रवर्धमानत्वाद्वर्धमानस्वामिनम्, समासतः सङ्केपेण सूत्रयुक्तितः सूत्रनीत्या वक्ष्येऽभिधास्ये प्रत्याख्यानस्य विधि विधानं मन्दमतिविबोधनार्थम् ॥१॥ जडबुद्धिविबोधनार्थं प्रत्याख्यानं किमुच्यत इत्याह - पच्चक्खाणं नियमो, चरित्तधम्मो य होंति एगट्ठा । मूलुत्तरगुणविसयं, चित्तमिणं वणियं समए ॥१९६॥ ५/२ प्रत्याख्यानं नियमश्चरित्रधर्मश्च भवन्त्येकाथिकानि निवृत्त्यभिधायित्वात् । मूलोत्तरगुणविषयं मूलगुणाः पञ्चमहाव्रतानि यतीनाम्, श्रावकाणामणुव्रतानि, उत्तरगुणाः पिण्डविशुद्ध्यादयोदिग्व्रतानि च तद्गोचरं चित्रमिदं प्रत्याख्यानं वर्णितं समये सिद्धान्ते ॥२॥ इह पुण अद्धारूवं, नवकारादि पतिदिणुवओगि त्ति । आहारगोयरं जइगिहीण भणिमो इमं चेव ॥१९७॥ ५/३ इह पुनरद्धारूपमद्धाप्रत्याख्यानस्वरूपं प्रतिनियतकालत्वेन, नमस्कारादि नमस्कारसहितादि प्रतिदिनोपयोगीति प्रतिदिवसोपयोगीति कृत्वा, आहारगोचरमाहारविषयम् । यतिगृहिणां साधुगृहस्थानां भणामः प्रतिपादयामः । इदं चैव प्रत्याख्यानमेव प्रस्तुतत्वात् ।।३।। प्रत्याख्यानगतानां द्वारगाथामाह - गहणे आगारेसुं, सामइए चेव विहिसमाउत्तं । भेए भोगे सयपालणाए अणुबंध भावे य ॥१९८॥ ५/४ [दारगाहा] ग्रहणे वक्ष्यमाणे, आकारेषु वक्ष्यमाणेष्वेव, सामायिके चैव कार्ये, विधिसमायुक्तं विधिसमन्वितम् । भेदे द्विविधादिगते भोगे प्रत्याख्यानोत्तरकालभाविनि स्वयंपालनायां स्वयमासेवने। अनुबन्ध भोगोत्तरकालभाविनि स्वाध्यायकरणादौ भावे च विशुद्धरूपे [अनुबन्धस्य
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy