SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ गाथा - ५-७ ५- प्रत्याख्यानविधि-पञ्चाशकम् भावः सत्ताऽनुबन्धभावः, तत्र च अटी. ] विधिसमायुक्तमिति सम्बन्धः ||४|| एनामेव लेशतो व्याचष्टे - - गिण्हति सयंगहीयं, काले विणएण सम्ममुवउत्तो । अणुभासतो पइवत्थु, जाणगो जाणगसगासे ॥१९९॥ ५/५ गृह्णाति प्रत्याख्यानं स्वयंगृहीतम्, गृह एव शरीरस्थिति - चैत्यवन्दनानन्तरं गृहीतम् । काल प्रत्याख्यानविषये भाविनि नातीते वर्तमाने वा अनागतं प्रत्याख्यामीति भाविकालविषयत्वे प्रतिपादनात्। अतीतवर्तमानयोश्च निन्दासंवरणविषयत्वात्, विनयेन वन्दनादिना । सम्यगदेशकालापेक्षयौचित्यमाश्रित्य न तु यथाकथञ्चित् स्वाध्याय - ध्यान-विघ्नकरणेन, उपयुक्तो नान्यत्रगतचित्तोऽनुपयुक्तस्य सर्वानुष्ठानेष्वेव द्रव्यत्वप्रतिपादनात् । अनुभाषमाणो ज्ञातसाधुवत् प्रत्युच्चारयन्नविनष्टं प्रत्याख्यानसूत्रम् । प्रतिवस्तु वस्तु वस्तु प्रति यद् यत्प्रत्याख्येयमित्यर्थः । ज्ञाप[य]को ज्ञः स्वयंवेदिता प्रत्याख्यानसूत्रार्थस्य, ज्ञाप[ य ]कसकाशे ज्ञसमीपे ज्ञस्य साधोः समीप इति यावत् ॥५॥ एत्थं पुण चउभंगो, विणणेओ जाणगेयरगओ उ । सुद्धासुद्धा पढमंतिमा उ सेसेसु उ विभासा ॥ २००॥ ६१ ५/६ अत्र पुनः प्रत्याख्यानप्रस्तावे, चतूरूपश्चासौ भङ्गश्च प्रकारश्च चतुर्भङ्गः, प्रत्याख्याने चत्वारो भङ्गा, जातावेकवचनम् । विज्ञेयो ज्ञातव्यो ज्ञाप[ य ] केतरगतस्तु कुशला कुशलबुद्धिपुरुषगतः । शुद्धाशुद्ध प्रथमान्त्या भङ्गौ, प्रथमः शुद्धोऽन्त्यस्त्वशुद्धः । साकल्य-वैकल्याभ्यां प्रत्येकमवसेया। शेषयोस्त, द्वितीय-तृतीययोः विभाषा व्याख्या विकल्पो वा शुद्धाशुद्धत्वे ॥६॥ बिति जाणावेडं, ओहेण तइए जिट्ठगादिम्मि । कारणओ उ न दोसो, इहरा होइ त्ति गहणविही ॥ २०९ ॥ ५/७ द्वितीये [भङ्गे ] ज्ञस्य ज्ञसमीपरूप - ग्रहणरूपे ज्ञापयित्वा तमज्ञं ओघेन सामान्येन, ओघेनाप्यज्ञाने विरतेरभावान्निर्विषयत्वेन यत्र ज्ञानं तद्विषयैव विरतिरिष्यते । ज्ञानविषयस्य विरतेरप्यविषयत्वात्, न ह्यज्ञाते कथञ्चिदपि विरतिर्नाम स्वल्पेऽपि तु ज्ञाने तद्विषया विरतिर्भवत्येव । ज्ञात्वाऽभ्युपेत्यकरणं विरतिरितिवचनात् । तृतीये भङ्गे ज्ञस्याज्ञसमीपग्रहणरूपे, ज्येष्ठकादौ ज्येष्ठार्यादौ, आदिशब्दात्तथाविधमहातपस्वि-रत्नाधिकवृद्धपरिग्रहः । कारणतस्तु कारणादेव न दोषः शास्त्रबाधालक्षणः, इतरथा भवतीति भवत्येव दोषः । ग्रहणविधिरयं प्रत्याख्याने वर्तते 11911
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy