________________
६२
५-प्रत्याख्यानविधि-पञ्चाशकम्
गाथा -८-११
[१. ज्येष्ठक - आचार्यादिसम्बन्धी वृद्धभ्राता, आदिशब्दात्तन्मातुल- पितृ-पितृव्यादिग्रहः
अटी.]
'आकारेषु' (५.४ गाथायां) इत्युक्तम् । तद्विषयविभागार्थमाह
दो चेव नमोक्कारे, आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमड्ढे, एक्कासणगम्मि अट्ठेव ॥ २०२॥
५/८
द्वावेव नमस्कारे नमस्कारसहिते, आकारा अपवादा विशेषा इति यावत् । षडेव पौरुष्यां तु षडेव च पौरुषीप्रत्याख्याने । सप्तैव च पूर्वार्धे प्रहरद्वयलक्षणे पूर्वाह्न इत्यर्थः, आकारा भवन्ति । एकासनके सकृदुपविष्टपुताचलनभोजनरूपे, अरक्तद्विष्टभोजनस्वरूपे वा, एकाशने समयप्रसिद्ध एकभक्ते वा लोक-लोकोत्तरप्रसिद्धे । अष्टैवाकारा आगमोक्ताः ॥८॥
सत्तेगट्टाणस्स उ, अट्ठेवायंबिलस्स आगारा ।
पंच अभत्तट्ठस्स उ, छप्पाणे चरिमे चत्तारि ॥२०३॥
५/९
सप्तैकस्थानस्य तु आकुञ्च-प्रसारणवर्जाः । अष्टैवायामाम्लस्याकाराः उष्णौदका - ऽवश्रावणसौवीरसहितौदनाद्यलवणान्न भोजिनः समयप्रसिद्धा एव । पञ्च भक्तार्थेन तु, न विद्यते भक्तार्थो भक्ताभिलाषोऽस्येति अभक्तार्थ उपोषितस्य, षट् पाने पानाहारे, विधिरूपा: अच्छबहललेपाऽलेपससिक्थऽसिक्थरूपाः । चरमे दिवसभवचरमरूपे चत्वार आकाराः शास्त्रप्रसिद्धाः ||९||
पंच चउरो अभिग्गहे, निव्वीए अट्ठ नव य आगारा । अप्पाउरणे पंच उ, हवंति सेसेसु चत्तारि ॥२०४॥ ५/१०
पञ्च चत्वारश्चाभिग्रहे निजविवक्षासम्भवे सर्वप्रत्याख्यानगते नाहारमात्रवर्तिन्येव क्वचित् पञ्च क्वचिच्चत्वारः, प्रवचनप्रशंसार्थं पञ्चेष्यन्ते । निर्विकृतिके विकृतिपरिभोगरहितप्रत्याख्याने समयप्रसिद्धे । अष्ट नव च आकारा उत्क्षिप्तविवेकसंभवासंभवाभ्यां सिद्धान्तोक्ताः दृष्टव्याः । अप्रावरणे पञ्च तु भवन्ति, शेषेषु अभिग्रहेषु चत्वार आकाराः ॥१०॥
नवणीओगाहिमए, अद्दवदहिपिसियघयगुडे चेव । नव आगारा तेसिं, सेसदवाणं च अट्ठेव ॥२०५॥
५/११
नवनीतो म्रक्षणम्, अवगाहेन [ = स्नेहबोलनेन - अटी. ] निवृत्तमवगाहिमं 'भावप्रत्ययान्तादिम' इति वचनाच्छब्दसिद्धिः कुट्टिमादीव, सत्स्नेहावगाहनिष्पन्नं पक्वान्नम्। नवनीतश्चावगाहिमं च नवनीतावगाहिमं तस्मिन्, अद्रवरूपे अद्रवदधिपिशितघृतगुडे चैव अद्रवदघ्नि पिण्डरूपे,