________________
गाथा-१२-१४ ५-प्रत्याख्यानविधि-पञ्चाशकम्
६३ अद्रवपिशिते घनमांसेऽद्रवघृतगुडे चोद्धारयोग्ये नवाकारास्तेषामुक्ते परिधे सहितत्वात्, शेष द्रवाणां च शेषाणामेव पूर्वोक्तानां स्वरूपेण द्रवद्रव्याणां चान्येषां मद्यादीनाम् अष्टैवाकारा उक्षिप्तविवेकाभावात् ॥११॥
किं पुनराकाराः प्रत्याख्यानेऽभिधीयन्ते इत्याह - वयभंगो गुरुदोसो, थेवस्स वि पालणा गुणकरी उ। गुरुलाघवं च णेयं, धम्मम्मि अओ उ आगारा ॥२०६॥५/१२
व्रतं शास्रतो नियमः तस्य भङ्गो विनाशोऽन्यथाकरणम् । गुरुर्दोषोऽस्मिन्निति गुरुदोषो वर्तत । व्रतविनाशो हि यतो महादोषो वर्तते। स्तोकस्यापि व्रतस्य पालना संरक्षणं गुणकरणशीला गुणकारी तु पालनैव गुणकारिणी, गुरुलाघवं च ज्ञेयं धर्मे गुणानां गौरवं वृद्धिर्दोषाणां च लाघवमल्पत्वम्, यथा संपद्यते धर्मविषये तथा ज्ञातव्यम् एकान्तग्रहणस्यानेकसत्त्वापकारजनकत्वेनासुन्दरत्वात् विशिष्टधर्मकार्यक्षतिप्रसङ्गात्। 'ग्लानादि-साधर्मिककार्यकरण हेतुष्वाकाराः।' अतो हेतोराकाराः शास्त्रे प्रतिपादिताः । प्रत्याख्यानाऽपवादा हि शास्त्र एवमर्थमुक्ताः, यथा प्रत्याख्यानभङ्गो न भवति । सर्वोपकारफला हि विदुषां प्रवृत्तिः । सा चैवमाराधिता भवति । न हि क्रियामात्रपरिपालनमेव तथाविधागमार्थगर्भविकलं विदुषां परितोषाय, तस्मात्सर्वानुग्रहार्थमिमे समाश्रियन्ते ॥१२॥
ननु च यतेः सर्वसावद्ययोगविरतिरूपभावसामायिकावस्थितस्य किमन्येनाहारप्रत्याख्यानेन प्रतिनियत-कालद्रव्यविषयभाविना ? नहि स कश्चित् गुणोऽस्ति यस्तदन्तर्वर्ती न सञ्जायत इत्याशङ्क्याह
सामइए वि हु सावज्जचागरूवे उ गुणकरं एयं । अपमायवुड्डिजणगत्तणेण आणाउ विण्णेयं ॥२०७॥ ५/१३
सामायिकेऽपि, हु सावद्यत्यागरूपे तु गुणकरमेतत् । आस्तां तावत् सम्यग्दृष्टिदेशविरतिस्थानयोः, सर्वविरतिसामायिकेऽप्येतद् गुणकरमेव, अप्रमादवृद्धिजनकत्वेन परिस्फुटैवाप्रमादवृद्धिर्यतेरप्याहारप्रत्याख्यानसेवने यथाकालमुपलभ्यते, किं पुनर्गृहस्थस्य सर्वारम्भाऽऽहारप्रवृत्तस्य । तस्य हि यावत्येव विषये प्रत्याख्यानं तावत्येवाप्रमादवृद्धिः प्रत्याख्यानमन्तरेण सर्वत्र प्रमादात् प्रवृत्तेः, आज्ञातो विज्ञेयं गुणकरमेव ॥१३॥
एत्तो य अप्पमाओ, जायइ एत्थमिह अणुहवो पायं । विरतीसरणपहाणे, सुद्धपवित्तीसमिद्धिफलो ॥२०८॥ ५/१४