SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ६४ ५- प्रत्याख्यानविधि-पञ्चाशकम् गाथा - १५-१६ अतः प्रत्याख्यानाद् अप्रमादो जायत आहारपरिभोगविषयः । अत्र वस्तुन्यप्रमादाख्ये [इह ‘अस्मिन् प्रत्याख्यानस्याप्रमादजननलक्षणेऽर्थे' - अटी.] अनुभवः प्रायः स्वसंवेदनमत्र प्रमाणम् । स चाप्रमादः कीदृगित्याह - विरतिस्मरणप्रधानः । प्रत्याख्यानाद्धि भवन्नप्रमादो विरतिं स्मारयतिअतस्तत्प्रधानशुद्धप्रवृत्ति - समृद्धिफलः । शुद्धा चासौ प्रमादपरिहारेण, प्रवृत्तिश्च क्रिया च [तस्या: समृद्धिः] तत्समृद्धिः फलमस्य अप्रमादस्येति तथोच्यते ॥ १४॥ ननु चेदमद्धाप्रत्याख्यानं प्रतिनियतकालप्रतिनियताहारविषयत्वेन विधीयमानं कथं सर्वसावद्ययोगविरतिरूपं सामायिकं न बाधते ? तस्य सर्वकालं सर्वद्रव्यविषयत्वादित्याशङ्क्याहन य सामाइयमेयं, बाहर भेयग्गहणे वि सव्वत्थ । समभावपवित्तिणिवित्तिभावओ ठाणगमणं च ॥ २०९ ॥ ५ / १५ न च सामायिकं सर्वसामायिकम् एतत्प्रत्याख्यानमाहारविषयं बाधते । भेदग्रहणेऽपि विशेषग्रहणेऽपि त्रिविधादिगते, सर्वत्र सर्वस्मिन् समभावप्रवृत्तिनिवृत्तिभावतो यतः समभावव्यवस्थित एव प्रवृत्तिनिवृत्ती सर्ववस्तुषु करोति । तद्भावतः स्वभावात् स्थानगमनभावात् । स्थानं हि गमनपरिहारेणावस्थितं गमनं च स्थानपरिहारेण । तद्यथाक्रियमाणं समभावं न बाधते, येन यत्करोति तत्र रागो, यतो निवर्तते तत्र द्वेषः, एवं रागद्वेषौ समभावबाधकौ न भवतः । प्रवृत्तिनिवृत्त्यौ (निवृत्त्ययोः) शास्त्रोक्तत्वेन संपादनात् न ह्यसौ स्वतन्त्रः किञ्चित्करोति परिहरति वा । केवलं यद्यथा शास्त्रे प्रवृत्तिविषयत्वेन निवृत्तिविषयत्वेन वा देशकालाद [ द्य] पेक्षया प्रतिपाद्यते तद्विधत्ते, तेनास्य समभावबाधा न क्वचिदुपजायते ॥ १५ ॥ (१. व अटी.) ननु चाकारा अपवादा विशेषास्त इमे आहारप्रत्याख्यान उक्ताः, सामायिके नोक्ता तत्कथमेतदित्याशङ्कमान आह - - सामइए आगारा, महल्लतरगे वि नेह पण्णत्ता । भणिया अप्पतरे वि हु, नवकाराइम्मि तुच्छमिणं ॥२१०॥ ५/१६ सामायिके सर्वविरतिरूपे आकाराः प्रागुक्ता: महत्तरकेऽपि द्रव्यकालविषयापेक्षया, नेह प्रज्ञप्ता भणिताऽल्पतरेऽपि द्रव्यकालापेक्षयैव । 'हु' शब्दो वाक्यालङ्कारे । नमस्कारादौ नमस्कारसहितादौ । तुच्छमिदम् असारमिदम्, युक्तिरहितत्वात् । तथाहि - महाविषय एव सर्वसामायिके आकारा वक्तुं युज्यन्ते, न पुनरल्पतरविषये नमस्कारादिप्रत्याख्याने, तत्कथं विपरीतत्वान्न तुच्छमिदम् ॥१६॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy