________________
गाथा - १७-१९ एवं परेणोक्ते सत्याह
-
५- प्रत्याख्यानविधि-पञ्चाशकम्
समभावे च्चिय तं जं, जायइ सव्वत्थ आवकहियं च । ता तत्थ न आगारा, पण्णत्ता किमिह तुच्छं ति ॥२११ ॥
६५
५/१७
समभाव एव रागद्वेषविकलाध्यवसाय एव सामान्येन तत् सर्वविरतिसामायिकम् । यद् यस्माज्जायते सम्भवति सर्वत्र वस्तुनि जायते चेतनाचेतनस्वभावे यावत्कथितं च यावज्जीवं च, ततस्तत्र सामायिके नाऽऽकाराः प्रज्ञप्ताः । किमिह तुच्छमिति न किञ्चिदत्रासारम् ॥१७॥ तं खलु निरभिस्संगं, समयाए सव्वभावविसयं तु 1 कालावहिम्मि वि परं, भंगभया नावहित्तेण ॥२१२॥
५/१८
तत् खलु सामायिकं निरभिष्वङ्गं निराशंसमेव, समतया मध्यस्थतया सर्वभावविषयं त सर्वपदार्थविषयमेव । ननु यदि सर्वद्रव्य-क्षेत्र - काल - भावविषयं तदिष्यते, तत्कथं यावज्जीवमित्युक्तमिति पराभिप्रायमुररीकृत्य वक्ति- कालावधावपि यावज्जीवलक्षणे, परं [जीवनात् परत: - अटी.] केवलं भङ्गभयान्नावधित्वेन । इदमत्र तात्पर्यं यावज्जीवमिति न जीवितावधिपरिच्छेदेन, परतोऽनिष्टतया सर्वसावद्ययोगविरतेरेवमभिधानम् । परतः किला सर्वमासेविष्ये भोगादि, जीवितावधिकालमात्रमेव मम सावद्ययोगनिवृत्तिर्नैवमर्थं यावज्जीववचनम्, किन्तु जीवितावधेः परतो मम सामायिकस्य भङ्गो मा भूदित्यवधिः क्रियते । यतो देवादिषु गतस्य न विरतिसम्भवो नाप्यात्मनो वशित्वम् । यदैव च वशित्वं तदैव तत्सामायिकं कर्तुं युक्तं प्रतिज्ञया । न हि सन्देहविषये विदुषां [ षा] प्रतिज्ञा कर्तुं युक्ता । यावज्जीवितं तु प्रतिज्ञाकरणे स्वतन्त्रत्वान्न दोषः, तस्य ह्येवंविधोऽध्यवसायोऽस्ति यावतायुर्मया पालनीयमिदमिति, कर्मपारतन्त्र्यात् तदन्यथा भावेऽपि न तस्य कश्चिद्दोषः । स हि यदा यदा सामायिकपरिणामं प्रतिपद्यते तदा तदा तदध्यवसाय एव भवति, न विपरीताध्यवसायः । एवं मोक्ष - ग्रहणयोः सतोरपि न यावज्जीवप्रतिज्ञाक्षतिः । कर्मपारतन्त्र्यविकलस्तु यथोत्क्षिप्तभरनिर्वाहत्वेन सर्वदा तत्प्रतिज्ञ एव भवति, न मोक्ष-ग्रहणवान् । तेन भङ्गभयादेवमभिधत्ते, न पुनरवधित्वेन तदध्यवसायस्य परतोऽपि भावतः संकल्प्याह तदत्यन्तवल्लभत्वात् । तस्य केवलं कर्मपराव्यत्ययतः सुष्टुच्यते । सर्वभावविषयमेतत् ॥१८॥ सामायिकनिरभिष्वङ्गता प्रतिपादनार्थमेवेदमाह -
मरणजयज्झवसियसुहडभावतुल्लमिह हीणणाए । अववायाण न विसओ, भावेयव्वं पयत्तेणं ॥ २१३॥ ५/१९ मरणजयाध्यवसितसुभटभावतुल्यं 'मर्तव्यं वा मया जयश्रीर्वा प्राप्तव्या' एवं व्यवसाय