________________
५४
४- पूजाविधि-पञ्चाशकम्
गाथा - ३२-३५
तत्प्रणिधानं कथं कर्तव्यमित्याह -
तं पुण संविग्गेणं, उवओगजुएण तिव्वसद्धाए । सिरणमियकरयलंजलि, इय कायव्वं पयत्तेणं ॥१७६॥ ४/३२
तत् पुनः संविग्नेन संसारभीरूणा मोक्षाभिलाषिणा वा । उपयोगयुतेनोपयुक्तेन दत्तावधानेन तीव्रश्रद्धया तीव्रप्रणिधानविषयाभिलाषेणोत्कृष्टधर्मश्रद्धया वा, शिरोनमितकरतलाञ्जलि र्मस्तकन्यस्तपाणितलाञ्जलिर्यथा भवति क्रियाविशेषणमेतत् । इति वक्ष्यमाणाक्षरोच्चारणन्यायेन कर्तव्यं प्रयत्नेन सर्वादरेण ॥३२॥
?
४/३३
जय वीयराय ! जगगुरु होउ ममं तुह पभावओ भयवं । भवनिव्वेओ मग्गाणुसारिया इट्ठफलसिद्धी ॥ १७७॥ लोगविरुद्धच्चाओ, गुरुजणपूया परत्थकरणं च । सुहगुरुजोगो तव्वयणसेवणा आभवमखंडा ॥ १७८ ॥ ४/३४ जुग्गं । जय, मङ्गलवचनमेतत् । सकलक्षुद्रोपद्रवपरिहारेण वीतरागवद्विगतरागद्वेषमोह जगद्गुरा जगज्ज्ञेयं चराचरं तस्य यथावस्थितस्वरूपसंसेवनाद् गुरुः । जगन्ति जङ्गमानि तेषां 'मानवीयत्वात् त्वाद्वा गुरुः भवत मम त्वत्प्रभावतो भगवंस्त्वत्सामर्थ्येन भवनिर्वेदः संसारनिर्वेदो मार्गानुसारिता मोक्षमार्गानुसारिता इष्टफलसिद्धिरविरोधफलनिष्पत्तिरैहलौकिकी ययोपगृहीतस्य चित्तस्वास्थ्यं भवति । ततश्च धर्मे प्रवृत्तिरन्यथा चित्तविघातान्नादिकर्मिकस्य निराकुलाशा तथाविधसत्त्वाभावेन तेनासाविष्टफलसिद्धि प्रार्थयते परानुपरोधेन ॥ ३३॥ (१. मानवीयत्वात् - यद्यपि अत्र मनुष्यत्वेन सर्वेषामपि मनुष्याणां (अविरतिधराणामपि ) ग्रहणं सम्भवति, तथापि पूर्वोक्तगाथोपदर्शितरीत्या “धर्मज्ञो धर्मकर्ता च सदा धर्मपरायणः ।" इत्यनेन सर्वविरतिधराणामेव गुरुशब्देन ग्रहणं योग्यम् ।)
लोकविरुद्धानि सर्वनिन्दास्वच्छाशय धर्मकरणहसनं जनपूजनीयावज्ञादीनि । तेषां त्यागः परिहारः, गुरुजनपूजा मातृपित्रादिपूजा, परार्थकरणं च परोपकारक्रिया च । शुभगुरुयोगः सुन्दरगुरुसम्बन्धः तद्वचनसेवना गुरुवचनसेवा यथाशक्ति आभवमासंसारमाजन्म वा । अखण्डा सकला तव प्रभावाद् भवत्विति सम्बन्धः ||३४||
आदिकर्म(र्मि)कमाश्रित्येदमभिहितमन्येषां तूत्तरोत्तरगुणवृद्ध्या स्वगुणस्थानकानुरूपं भवतीति सामान्येनैव प्रणिधानमाश्रित्याह -