________________
गाथा - ३५-३८
४- पूजाविधि- पञ्चाशकम् उचियं च इमं णेयं, तस्साभावम्मि तप्फलस्सऽण्णे । अपमत्तसंजयाणं, आराणभिसंगओ न परे ॥ १७९॥
४/३५
उचितं च योग्यं चेदं प्रणिधानं ज्ञेयम् । तस्य प्रार्थनीयार्थस्याभावे तत्फलस्य प्रणिधानविषयीकृतार्थजन्यकार्यस्याविद्यमानत्वेऽन्ये प्रणिधानमिच्छन्ति । यद्यपि सोऽर्थः सामान्येनास्ति तथापि तत्फलसंसिद्धये स एव प्रार्थ्यते । कथं तु नाम विशिष्टतमः स्यात्तस्यानेकभेदत्वाद् ? अप्रमत्तसंयतेभ्य आरादर्वाग्भाग इत्यर्थः। प्रमत्तसंयतान्तमित्युक्तं भवति । अनभिष्वङ्गाद्धेतोर्न परस्मिन् प्रमत्तसंयतादप्रमत्तसंयते तस्य ह्यप्रमत्तत्वादेव न किञ्चित्प्रणिधानेन साध्यमस्ति प्रार्थनातीतत्वाद्विहितसेवनपरत्वात्कुशलपरिणामत्वाच्चेति ॥३५॥
'न निदानं प्रणिधानम्' इति [ ४- ३० गाथायाम् ] यदुक्तं तस्येव भावार्थगर्भनिगमनद्वारेणाहमोक्खंगपत्थणा इय, न नियाणं तदुचियस्स विण्णेयं । सुत्ताणुम तो जह, बोहीए पत्थणा माणं ॥ १८०॥
४/३६
५५
मोक्षाङ्गप्रार्थना मुक्तिहेतुसम्यग्ज्ञान- परोपकारादिप्रार्थना इत्युक्तनीत्या न निदानम् तदुचित[स्य]प्रणिधानोचितस्य विज्ञेयम्, सूत्रानुमतेः सकाशात् सूत्राभिप्रेतत्वात् वा तद्विधप्रार्थनाया यथा बोधेः प्रार्थना मानं प्रमाणमत्र यदि प्रार्थना सर्वापि निदानमभविष्यत्, ततो बोधिप्रार्थनां सूत्रे नाकरिष्यत् कृता च तस्मात् सैव प्रमाणम् ॥३६॥
ननु च यदि शुभभावप्रार्थनानिदानं न भवति, ततो दशाश्रुतस्कन्धे तीर्थकरविषयनिदानप्रतिषेधो युक्त इत्याशङ्क्याह -
एवं च दसादीसुं, तित्थयरम्मि वि नियाणपडिसेहो ।
जुत्तो भवपडिबद्धं, साभिस्संगं तयं जेण ॥१८१ ॥ ४/३७
एवं च रागद्वेषमोहगर्भस्य रूप-रस- गन्ध - स्पर्श - शब्दसांसारिकपदार्थविषयस्य क्लिष्ट परिणामस्य निदानत्वे, दशादिषु ग्रन्थेषु तीर्थकरेऽपि तीर्थकरत्वविषयेऽप्यहमस्माद्धर्मात्तीर्थकरः स्यामिति निदानप्रतिषेधः, एवंरूपनिदाननिषेधो य उक्तः, स युक्तो वर्तते । भवप्रतिबद्ध संसारप्रतिबद्धं सांसारिकरूपसौभाग्यादिभावविषयम्। साभिष्वङ्गं सरागं तत्तीर्थकरनिदानं येन । अयमत्र भावार्थो - यदेव सांसारिकभावविषयं तीर्थकरत्वनिदानं तदेव तत्र निषिध्यते, न त्वन्यत् ॥३७॥
अत एवाह
जं पुण निरभिस्संगं, धम्मा एसो अणेगसत्तहिओ । निरुवमसुहसंजणओ, अपुव्वचिंतामणीकप्पो ॥१८२॥
-
४/३८