SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ४-पूजाविधि-पञ्चाशकम् चैत्यवन्दनान्तरविधेयमाह एयस्स समत्तीए, कुसलं पणिहाणमो उ कायव्वं । तत्तो पवित्ति विग्घजय, सिद्धी तह य थिरीकरणं ॥ १७३ ॥ ४/२९ गाथा - २९-३१ - ५३ एतस्य वन्दनस्य समाप्तौ सत्यां कुशलं कुशलहेतुत्वात् । प्रणिधानमैकाग्र्यम् । 'मो' ['ओ' अटी. ] इति निपातः, 'तुशब्द एवकारार्थः । कर्तव्यं विधेयमेव कुशलप्रणिधानम् । ततः प्रणिधानात् प्रवृत्तिर्धर्मव्यापारविषया प्रशमप्रधाना । विघ्नजयो हीनमध्यमोत्तमविघ्नाभिभवरूपः। सिद्धिः प्रस्तुतधर्मव्यापाराणां निष्पत्तिः तथा स्थिरीकरण च स्वपरगतानां धर्मयोगानामेव प्रवृत्यादीनि वाञ्छता प्रणिधानमवश्यकरणीयम् । तदभावे प्रवृत्त्याद्यसिद्धेः ॥२९॥ ननु च प्रणिधानं प्रार्थनारूपत्वाद् भोगादिनिदानवत् परिहर्तव्यमित्याशङ्क्याह एत्तो च्चिय न नियाणं, पणिहाणं बोहिपत्थणासरिसं । सुहभावहेउभावा, णेयं इहराऽपवित्ती उ ॥ १७४॥ ४/३० अत एव प्रवृत्यादिहेतुत्वादेव कुशलप्रणिधानं न निदानम् । रागद्वेषमोहगर्भस्य क्लिष्टाशयस्य भोगगृद्धिपरस्य निदानत्वान्न चैवंरूपमेतद् प्रणिधानं बोधिप्रार्थनासदृशम्, समयनीत्या यथा बोधेः प्रार्थना समये न निदानं प्रसिद्धम् । यत् प्रोक्तम् - भासा असच्चमोसा, नवरं भत्तीए भासिआ एसा । ण हुखीणपेज्जदोसा देति समाहिं व बोहिं वा ॥ [ आवश्यकनियुक्ति गाथा - १०९५ ] शुभभावहेतुभावाच्छुभाध्यवसायहेतुत्वेन ज्ञेयं ज्ञातव्यम् इतरथा शुभभावहेतुत्वमन्तरेण अप्रवृत्तिरेवाप्रवर्तनमेव प्रणिधाने स्यात् ॥३०॥ एवं तु इट्ठसिद्धी, दव्वपवित्ती उ अण्णहा नियमा । तम्हा अविरुद्धमिणं, णेयमवत्थंतरे उचिए ॥ १७५ ॥ ४/३१ एवमेव प्रणिधानसहित एव वन्दने विधीयमाने, इष्टसिद्धिरिष्टनिष्पत्तिः, द्रव्यप्रवृत्तिस्तु द्रव्यप्रधाना प्रवृत्तिर्द्रव्यक्रियैव अन्यथा प्रणिधानमन्तरेण नियमादवश्यंभावेन । तस्मादविरुद्धमिदं प्रणिधानं ज्ञेयमवस्थान्तर पुरुषावस्थाविशेष उचिते योग्य आदिकर्मकत्वादौ ॥३१॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy