________________
५२
४-पूजाविधि-पञ्चाशकम् गाथा-२६-२८ कुशलपरिणामः शुभाशयः सुन्दरभावात् तेषां स्तुति-स्तोत्राणां सुन्दरत्वात् । इतरस्मिन्नपि अर्थापरिज्ञानेऽपि तथाविधस्तोत्रापेक्षया रत्नज्ञातेन ॥२५॥ रत्नोदाहरणमेवाह - जरसमणाई रयणा, अण्णायगुणा वि ते समिति जहा । कम्मजराई थुइमाइया वि तह भावरयणा उ॥१७०॥ ४/२६
जरशमनादीन्यादिशब्दाच्छूलशमनादिग्रहः, रत्नानि पृथिवीपरिणामानि । अज्ञातगुणान्यप्यनिश्चितगुणान्यपि । तान् ज्वरशूलादीन् शमयन्ति निवर्तयन्ति, यथाऽयं दृष्टान्तः, द्राष्टान्तिकमाह-कर्मज्वरादीन् स्तुत्यादीन्यप्यपायहेतुं तथा भावरत्नानि तु स्तुतिस्तोत्राणि भावरत्नकल्पानि शमयन्ति ॥२६॥
ता एयपुव्वगं चिय, पूयाए उवरि वंदणं णेयं ।। अक्खलियाइगुणजुयं, जहाऽऽगमं भावसारं तु ॥१७१॥ ४/२७
तत् तस्मादेतत्पूर्वकमेव स्तुतिस्तोत्रपूर्वकमेव पूजाया उपरि वन्दनं चैत्यवन्दनं ज्ञेयमवबोद्धव्यम् । अस्खलितादिगुणयुतमस्खलितामिलितव्यत्यानेडिताहीनस्वरादियुक्तम् । यथागमं यथाश्रुतम्, न तदतिक्रमेण, भावसारं तु भावसारमेव ॥२७॥
किमेतत्पूर्वकं चैत्यवन्दनं भावसारं प्रशस्यत इत्याह - कम्मविसपरममंतो, एवं एयं ति बेंति 'सव्वण्णू । मुद्दा एत्थुस्सग्गो, अक्खोभो होइ जिणचिण्णो ॥१७२॥ ४/२८
कर्मविषपरममन्त्रः तथाऽतदपरिहारकारित्वेन एवमुक्तनीत्या एतदिति वचनं ब्रुवते सर्वज्ञाः [(समयण्णू) = समयज्ञा इति पाठान्तरम् - अटी] । उपादेयप्रकर्ष एतदिति भावः । मुद्राऽनुल्लङ्घनीयरूपा क्षुद्रसत्त्वानां तथाविधचिह्नरूपा वा अत्र चैत्यवन्दने उत्सर्गः कायोत्सर्गः अक्षोभोऽचलितस्वरूपो भवति । जिनचीणा जिनाचरितः श्रुतावधिमनःपर्यायकेवलिजिनाचरितत्वाज्जिनकल्पिकाचरितत्वाच्च । चीर्णं प्रवासिव्रतमिति विशिष्टप्रयुक्तेः । चीर्णशब्दः संस्कृतेऽपि द्रष्टव्यः ॥२८॥ (१. समयण्णु अटी. ।)