________________
५०
४-पूजाविधि-पञ्चाशकम्
अथ किं भावप्राधान्यात् प्रवरसाधनोपदेश इत्याशङ्क्याह
इयलोयपारलोइयकज्जाणं पारलोइयं अहिगं ।
तंपि हु भावपहाणं, सो वि य इय कज्जगम्मो ति ॥ १६९ ॥ ४ / १७
-
इहलोक-पारलौकिककार्ययोर्मध्ये पारलौकिकमधिकं तत्प्रधानत्वाद्विदुषां तदपि च पारलौकिकं धर्मकार्यं भावप्रधानं वर्त्तते । सोऽपि च भावः इत्येवं कार्यगम्य एवंविधप्रवरपूजासाधनोपनयनावसेयः, इति हेतौ परिसमाप्तौ वा ॥१७॥
प्रस्तुतवस्तुनिगमनायाह -
ता नियविहवणुरूवं, विसिट्ठपुप्फाइएहिं जिणपूया । कायव्वा बुद्धिमया, तम्मी बहुमाणसारा य ॥ १६२॥
४/१८
तस्मान्निजविभवानुरूपं स्वकीयविभवसदृशं क्रियाविशेषणम् । विशिष्टपुष्पादिकैः प्रागुक्तैः जिनपूजा कर्त्तव्या बुद्धिमता प्रेक्षावता । तस्मिन् जिने भगवति बहुमान आन्तरः प्रीतिविशेषः, तद्भावाच्च बहुमानविशेषात् फलविशेषसिद्धेः ॥१८॥
विधिना इत्युक्तम् [४/३ गाथायाम्] तमेव लेशतो दर्शयति -
एसो चेव इह विही, विसेसओ सव्वमेव जत्तेण । जह रेहइ तह सम्मं, कायव्वमणण्णचेट्टेणं ॥ १६३॥
गाथा - १७-२१
४/१९
एष एवेह पूजायां विधिरूपदेश उपाय इति यावत् । विशेष [तः ] पुनरयं सर्वमेव प्रागुक्तम्, यत्नेनादरेण यथा राजते शोभते तथा सम्यक् कर्तव्यमनन्यचेष्टेन नान्या शरीरविषया चेष्टा यस्य, तेनानन्यव्यापारयुक्तेनेत्यर्थः ॥१९॥
वत्थेण बंधिऊणं, नासं अहवा जहासमाहीए ।
वज्जेयव्वं तु तदा, देहम्मि वि कंडुयणमाई ॥१६४॥
-
४/२०
वस्त्रेण बद्ध्वावृत्याऽऽच्छाद्य नासां नासिकामष्टपुटेन, सामान्येन वा, यथासमाधि चेतः स्वास्थ्यानतिक्रमेण बद्ध्वापीत्यर्थः । वर्जयितव्यं तु तदा जिनपूजाकाले, देहेऽपि कण्डूयनादिः, आदिशब्दाद्देहसंस्कार-परिकर्माङ्गमर्दनादिग्रहः ॥२०॥
किं विधियत्त्रः प्रशस्यत इत्याह
भिच्चा वि सामिणो इय, जत्तेण कुणंति जे उ सनिओगं । होंति फलभायणं ते, इयरेसि किलेसमेत्तं तु ॥१६५॥
४/२१