SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ गाथा - १४-१६ ४-पूजाविधि-पञ्चाशकम् विशिष्टपुष्पादिभिः पूजोक्ता, [४-३ गाथायाम् ] तामेव व्यक्तितोऽनुग्रहार्थमुपदिशति गंधवरध्वसव्वोसहीहिं उदगाइएहिं चित्तेहिं । सुरहिविलेवणवरकुसुमदामबलिदीवएहिं च ॥ १५८ ॥ ४/१४ सिद्धत्थयदहिअक्खयगोरोयणमाइएहिं जहलाभं । कंचणमोत्तियरयणादिदामएहिं च विविहेहिं ॥१५९॥ ४/१५ जुग्गं । गन्धाः गन्धवद् विशिष्टसुरभिद्रव्याणि । वरधूपो गन्धयुक्तिप्रसिद्धः । सर्वौषधिरपि तत्प्रसिद्धैःअथवा सर्वाश्च ता औषधयश्च । सर्वेषां पदानां द्वन्द्वस्ताभिर्गन्ध-वरधूप-सर्वौषधीभिरुदकादिकैश्च चित्रर्नानाप्रकारैः । सुरभिविलेपनं चन्दनाद्युपदेहे वरकुसुमदामानि प्रधानसुरभिपुष्पमालाः । बलिरूपहारः दीपकाः प्रदीपाः प्रसिद्धा एव तैः सुरभि - विलेपन - वरकुसुम-दाम-बलि- दीपकैश्च ॥१४॥ - ४९ सिद्धार्थकाः सर्षपाः दध्यक्षता दध्ना संसृष्टा अक्षता: । पृथग् वा द्वयोर्ग्रहणम् । गोरोचना गोपित्तप्रभवा प्रसिद्धैव, आदिशब्दाच्छेषमङ्गल्यवस्तुपरिग्रहस्तैः यथालाभं यथासम्पत्ति । काञ्चनमौक्तिकरत्नादिदामकैश्च कनकावलि - मुक्तावलि - रत्नावल्यादिरूपर्विविधैरनेकविधानैः ॥१५॥ किं पुनर्विशिष्टपुष्पादिभिः पूजोच्यत इत्याह पवरेहिं साहणेहिं, पायं भावो वि जायए पवरो । न य अण्णो उवओगो, एएसि सयाण लट्ठयरो ॥ १६०॥ ४/१६ प्रवररुत्कृष्टैः, साधनैः पूजोपकरणद्रव्यैः, प्रायो बाहुल्येन, भावोऽपि जायते प्रवरः प्रधानः । क्वचिदनुत्कृष्टवस्तुभिरपि पूजां कुर्वन् उत्कृष्ट एव क्षयोपशमविशेषाद् भावो भवतीति प्रायो ग्रहणम् । भूयस्त्वेन तु सहकारिविशेषाद् भावविशेषः । यथोक्तम् - गुणभूइट्टे दव्वंमि, जेणमत्तोऽहियत्तणं भावे । इइ वत्थूओ इच्छइ, ववहारो निज्जरं विउलं ॥ [] [गुणभूयिष्ठे द्रव्ये, येन मात्राधिकत्वं भावे । इति वस्तुत इच्छति, व्यवहारो निर्जरां विपुलाम् ||] न चान्य उपयोगः स्वफलसाधनव्यापाररूपः, एतेषां प्रवरसाधनानां सतां विद्यमानानां लट्ठयरो कान्ततरोऽभिलषिततरः ॥१६॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy