________________
४-पूजाविधि-पञ्चाशकम्
यतनया स्नानादिगुणायेत्युक्तम्, ४-३ गाथायाम् तामेवाह - भूमीपेहणजलछाणणाइ जयणा उ होइ ण्हाणाओ ।
एत्तो विसुद्धभावो अणुहवसिद्धो च्चिय बुहाणं ॥ १५५ ॥ ४ / ११
४८
"
गाथा -११-१३
भूमिप्रेक्षणजलशोधनादिर्यतना तु भवति । तत्र भूमिप्रेक्षणं कीटिकानगरपरिहारेण, जलशोधनं पूतरकादिपरिहारेण, आदिशब्दादागन्तुकसत्त्वासङ्कीर्णताग्रहः । स्नानादौ ' स्नानविलेपनपुष्पमालादौ तद्योनिजाऽऽगन्तुकसत्त्वपरिहारेण अतो यतनातो विशुद्धभावो विशुद्धाध्यवसायः पूजाविषय एव अनुभवसिद्ध एव बुधानां स्वसंवेदनप्रत्यक्षसिद्ध एव विदुषाम् [१. इह च प्राकृते औकारश्रुतेरभावात् ण्हाणाओ इत्येवं पठ्यते - अटी. ] ॥११॥
व्यतिरेके दोषमाह -
अन्नत्थारंभवओ, धम्मेऽणारंभओ अणाभोगो ।
लोए पवयणखिंसा, अबोहिबीयं ति 'दोसाय ॥१५६॥
४/१२
अन्यत्र स्वगृहव्यापारेषु आरम्भवतः तत्प्रवृत्तस्य धर्मेऽनारम्भतो [ अनारम्भकः - अटी. ] अनारम्भाद्धर्मविषयारम्भपरिहारात्, अनाभोगोऽज्ञानबहुलत्वं शास्त्रोक्तस्याप्यारम्भस्य परिहारात् पूजाविषयं ह्यारम्भमागमोक्तत्वात् करोति, न स्वेच्छया, तमपि परिहारतो अज्ञानमनाभोगो वर्त्तत । लोके प्रवचनखिसा अबोधिबीजमिति दोषाय [दोसा य ' [दोषाश्च ] च शब्दोऽनाभोगापेक्षया समुच्चयार्थः - अटी.] सर्वो विशिष्टलोकः शरीरशौचपूर्वकं देवपूजादौ वर्त्तते । तद्व्यवहारान्यथाकरणे लोके निन्दा प्रवचनस्य सा चाबोधिबीजम्, स्नानादिपरिहारेण पूजाप्रवृत्तस्येति दोषाय सम्पद्यत । तस्मात्तद्दोषपरिहारार्थं द्रव्यतः शुचिना पूजा विधेया । भावे विशुद्धवृत्तिना पूजा विधेयेति ॥१२॥ (१. दोसा य अटी. 1)
तद्विपक्षव्यवच्छेदायाह -
अविसुद्धा वि हु वित्ती, एवं चिय होइ अहिगदोसा उ । तम्हा दुहा वि सुइणा, जिणपूया होइ कायव्वा ॥१५७॥ ४/१३
अविशुद्धापि स्वावस्थाऽनुचितापि । हुर्वाक्यालङ्कारे, वृत्तिर्वर्तनोपायरूपा । एवमेव प्रवचनखिंसावद् भवत्यधिकदोषा तु प्रभूतदोषैव । तस्माद् द्विधापि द्रव्यभावाभ्यां शुचिना जिनपूजा भवति कर्तव्या ॥ १३ ॥