________________
गाथा - ३९-४२
३-चैत्यवन्दनविधि-पञ्चाशकम्
भावेणं वण्णादिहिं, तहा उ जा होइ अपरिसुद्ध त्ति । बीयगरूवसमा खलु, एसा वि सुह त्ति निद्दिट्ठा ॥१३३॥ ३/३९
भावेन याऽयुक्ता वर्णादिभिस्तथा तु, या वन्दना, भवत्यपरिशुद्धा इत्यसम्पूर्णा विकृता[सदोषा अटी.]इति यावत् । द्वितीयकरूपकसमा खलु द्वितीयभङ्गपतितरूपकतुल्यैव । एषाऽपि शुभेति निर्दिष्टा, भावगर्भत्वादस्याः ॥३९॥
भावविहूणा वण्णाइएहिं सुद्धा वि कूडरूवसमा । उभयविहूणा णेया, मुद्दप्पाया अणिट्ठफला ॥१३४॥ ३/४०
४१
भावविहीना भावरहिता, वर्णादिभिर्वर्णादिकैः प्रकारैः, शुद्धापि दोषरहितापि कूटरूपसमा कूटरूपतुल्या उभयविहीना चतुर्थर्भङ्गपतिता, ज्ञेया मुद्राप्राया न स्वकार्यकारिणी अनिष्टफलेष्टफलरहिता ॥४०॥
एषा च मुद्रा प्रायः केषां भवतीत्याह -
होइ य पाएणेसा, किलिट्ठसत्ताण मंदबुद्धीणं ।
पाएण दुग्गइफला, विसेसओ दुस्समाए उ ॥१३५॥
३/४१
भवति च प्रायेणैषा वन्दना क्लिष्टसत्त्वानां बहुक्लेशजीवानां मन्दबुद्धीना जडधियां प्रायेण बाहुल्येन दुर्गतिफला विशिष्टफलरहितत्वाद् विशेषता विशेषेण दुःषमायां तु कालदोषात्
॥४१॥
अण्णे उ लोगिग च्चिय, एसा नामेण वंदना जइणी । जं तीइ फलं तं चिय, इमीए न उ अहिगयं किंचि ॥ १३६ ॥
३/४२
अन्ये तु अन्ये पुनरेवं मन्यन्ते लौकिक्येवैषोभयविकला वन्दना, नाम्ना तु वन्दना जैनी अक्षर-क्रियासाम्यात् [यदिति यदेव - अटी. ] तस्याः फलं लौकिकवन्दनायास्तदेवास्या जैन्याः, 'न त्वधिकृतं किञ्चित् शास्त्रोक्तमभ्युदयमोक्षरूपम्, सामान्येन लौकिकवन्दनायामपि किञ्चित् फलमिष्यत एव, तेन तत्समानत्वनिर्देशात् तदभ्यनुज्ञायते न त्वपरमितिगर्भः ॥४२॥
[१. न त न पुनरधिकृतं प्रस्तुतं जिनवन्दनोचितं मोक्षादि, अथवाऽधिकमर्गलतरं लौकिकवन्दनापेक्षयेति अटी. ]